This page has not been fully proofread.

३३०
 
कुम्भनिकुम्भवधवर्णनो नाम
 
प्रवृद्धः किं विन्ध्यः पुनरपि निरोद्धुं रैषिरथं
निकुम्भो निष्क्रान्तः किमयमथ कुम्भान्तकुपितः ।
कपिस्कन्धावारे कनकशिखरीवोल्लसति कैः
 
स नूनं सामीरिः स्फुटमिति जगुर्देवनिवहाः ॥ ८२ ॥
तयोरासीद्दीर्घः तरुपरशुपातव्यतिकरः
 
ततो जज्ञे भूयान चलकुलिशोत्सर्गरभसँः ।
ततो दन्तादन्ति प्रधनमभवतुल्यरसयो-
रसुग्रन्थिच्छेदं कपिरकृत कृच्छ्रादय रिपोः ॥ ८३ ॥
ननाद सुरदुन्दुभिर्भुवमियाय पुष्पं दिवो
 
जगुस्त्रिदशचारणा ननृतुरप्सरःश्रेणयः ।
भृशं वट्टषुराशिषो मुनिगणा: समीरात्मजे
 
जुगूह मघवा हुँदं सपदि॰ मेघनादं स्मरन् ॥ ८४ ॥
विभीषणमभाषत प्लवगराड् जितो रावर्णः
 
तमोमिति जगाद स श्लथ इवावशेषेक्षणात् ।
खरात्मजविकत्थनाद्वितथमेव हर्षे ययौ
 
निकुम्भनिधनेऽपि यद्दशमुखस्य सा मूर्खता ॥ ८५ ॥
 
१. A नवि २. D रस्थूलगतिकः । ३. B तलपातप्रहरणः । D शानर्थरभसः । ४. BC तरसो: D
 
रभसोः ५. A सुहृदः । ६. BCD मुदमदः ७. A मनसि ८. Bणिः ९. BC षचयो