रामचरितम् /360
This page has not been fully proofread.
३२८
कुम्भनिकुम्भवधवर्णनो नाम
सोऽभज्यताथ रणमूर्ध्नि कपीश्वरेण कुम्भः क्षितिः क्षतजवारिभिराप्लुताऽभृत्
दासीव दर्शितमहाभयवेगदीना सेना निवृत्य दशकण्ठतले पपात ॥ ५८ ॥
विज्ञाय कुम्भनिधनं रजनीचरेन्द्रः चक्रन्द योषिदिव दुर्धरशोकवेगः ।
अत्रान्तरे तदखिलं पुरमाततान हाहेति रुद्धसकलध्वनिरार्तनादः ॥ ५९ ॥
प्रत्यालयं तदनु वीरपरिग्रहाणां जज्ञेऽनुमाररवतूर्यरवोर्मिरुच्चैः ।
तेनाहतो जलघरागमनिम्नगाया : कूलद्रुमं दशमुखस्तुलयाम्बभूव ॥ ६० ।
हा मातुलप्रभृतयः क्षणदाचरेन्द्राः दूरीकृतः किमयमेकपदे दशास्यः ।
एह्येहि कुम्भ मम देहि भुजावलम्बमित्यूचिवान दशमुखः सुचिरं जुघूर्णे ॥ ६१ ॥
भेजे निकुंम्भ इति कुम्भजघन्यजस्तं जन्योत्सवादरतिरस्कृतशोकदैन्यः ।
ऊचे च संभ्रमविशेषितमन्युवेगमुद्वेगलङ्घितविकत्थनसंनिरोधः ॥ ६२ ॥
शोकस्य लोकनिधनोद्धुर कः क्रमोऽयं कालोऽयमप्रतिहतः प्रतिघानलस्य ।
शाधि त्रिलोकमखिलं कबलीकरोमि कस्तापसः कपिकृमिध्वजिनीसमेतः ॥ ६३ ॥
पित्रा न यत्कृतमनुत्तमपौरुषेण भ्रात्रा च तेन जगदद्भुतविक्रमेण ।
प्राप्तेन रूपमनोरनुशासनाभ्यां तत् पश्य तात कृतमद्य मयाऽऽजिमूर्ध्नि ॥ ६४ ॥
स्थूलोच्चयान् प्रथमतः प्लवगानभुङ्ग भूयश्च यः समिति शेषयति स्म कांश्चित् ।
सोऽयं समापयति संप्रति विद्विषस्ते तातस्तृतीयमवलम्ब्य निजप्रभेदम् ॥ ६५ ॥
आरामलक्ष्मणवधाद्गुरुणा गृहीतस्तेन प्लवङ्गपृतनानिधनाधिकारः ।
दूरान्तरोऽपि सुतसञ्चरितात्मरूपः तातः स एव तव तात निहन्ति शत्रून् ॥६६॥
जातोऽस्मि वर्महरं एष शिशुर्न सोहं को मां सहेत भवदन्तलप्ररूढम् ।
नालोक्यते मदकलैरपि जृम्भमाणः सन्दिग्धदन्तमुकुलो मृगराजशाबः ॥ ६७ ॥
उच्छिष्णमूर्ध्नि गुर्यो: गुर्वाहवोत्सवरसमसृतो निकुम्भः ।
तावद्य मर्त्यमृतकौ भवतो निदेशान्निश्शेषता नयतु पश्य दिशो विविक्ताः ॥ ६८ ॥
आनीय वीतगुरुचापरवौ कराभ्यां युद्धोद्धताग्रहरिवीरतरङ्गमालौ ।
तावुत्पिवन युगपदुच्चलिताविवाब्धी कुम्भोद्भवं हसतु कुम्भजघन्यजन्मा ॥ ६९ ॥
१. BCD कुमारवध. २. BCD षेध । ३. A दुम् । ४. BC तिष्ठ । ५. BC तौ । ६. BC गर्यो ।
७. AC D धीर or वीर ८. BCD क्षुब्धोद्ध ।