रामचरितम् /358
This page has not been fully proofread.
३२६
कुम्भनिकुम्भवधवर्णनो नाम
तौ केशकेसरसटोदरगाढमुष्टी दंष्ट्राललामतिलकौ समरोदरेषु ।
अन्योन्यदेहलयैनिर्जितखर्वचैन्द्राविन्द्रादिभिः सुरगणैश्चिरमैक्षिषाताम् ॥ ३३ ॥
द्वावप्युपोढदृढबाहुबलावलेपौ द्वावप्यनेकसमराधिगतप्रतिष्ठौ ।
द्वावप्यमर्षभैरबृंहितसिंहनादौ द्वावप्यजत्रमतिकर्कशसंप्रहारौ ॥ ३४ ॥
द्वावप्युदीर्णरभसोत्करणानुरागौ द्वावप्यसोपरिकर्मर्कलाविलम्बौ ।
द्वावप्युदग्रनिजसैन्यजयप्रघोषौ द्वावप्युपस्थितनभश्वरपुष्पवर्षी ॥ ३५॥
रक्षः कदाऽपि कपिरेव परं कदाऽपि द्वन्द्वं कदापि रज एव तयोः कदापि ।
शब्द: कदापि न किमप्युभयोः कदापि सैन्यैः समस्तमुभयोर्ददृशे कदापि ॥ ३६॥
व्यावल्गतोश्च वलँतोश्च विनिघ्नतोश्च निर्गच्छतोच विशतोश्च नियुद्धमार्गैः ।
दध्वान दूरमनमत् प्रचचाल विष्वक् विश्वम्भरा भरैमसोढ तयोः कथञ्चित् ॥ ३७ ॥
तौ द्वौ तदेति भुवनत्रयबान्धवारी बन्धोषबन्धविधिभिः सुमहानुवन्धौ ।
संभेजैंतुर्भुजसमीकममर्षरौद्रं रुद्रान्तकाविव कपिक्षणदाचरौ द्वौ ॥ ३८ ॥
आलोक्यतामधिपतिः प्रथमं कपीनां निर्वर्ण्यतां तदनु पुण्यजनप्रवीरः ।
किं दर्पणेन पुनरुक्तमुदीक्षितेन जातं समग्रमिदमालि तमालपत्रम् ॥ ३९ ॥
किं दूरमापतैंसि मानसवेगपुत्रि पत्रं न पत्ररथवर्त्म विगाहते नः ।
अत्रैव तिष्ठ निधनोत्सवसाक्षिणीनामेष्यन्ति नः स्वयममी सुभ: समीपम् ॥४० ॥
प्रत्यक् प्रतीर्य रिपुबाणनदीरुपेतः सोढा न ते सुभट एष कटाक्षवाणान् ।
एषोऽप्यरातिकरिकुम्भँविभेददक्षः सन्नस्तवालि कुचकुम्भविलोकनेन ॥ ४१ ॥
एष्वेव निष्र्णेतिघमृत्युरसोध्दुरेषु रम्भे रमस्व रजनीचर पुङ्गवेषु ।
दिव्यानुभावनिरपायरणोत्सवेन वामोरु वानरवलेन किमीक्षितेन ॥ ४२ ॥
कस्येदमानतमुखं सुभटोत्तमस्य विश्वं निवेशयसि चेतसि चित्रलेखे ।
अङ्गैः सवाधवलनैरवलोकमात्रात् त्वं कस्य ताम्यसि कृते सखि पत्रलेखे ॥४३॥
किं पृष्टमेव सखि पृच्छसि पञ्चचूडे रुष्टेव किं वदसि मामलके न किञ्चित् ।
उन्मादिनीव किमियं त्वमपीन्द्रलेखे नाख्यासि मय्यपि किमाधिमनसेने ॥४४॥
१. B C D करालवदनौ २. Cज ३ . B C Dत ४. AB रस ५. BC D प्युपोढ ६. Aफ
७. B रुच ८. B C नियच्छ ९. B C चल १०. A ३वम् ११. B ञ्चराचर १२. BCD धकारौ १३. B
C मम्लेच D यस्तेचतु १४. A नम D तप १५. D त्वम् १६, B C D विभियः १७, B C णंनबि
१८, BCD नप्र १९. A यमानतमुखी २० A बुद्धि