This page has not been fully proofread.

षट्त्रिंशः सर्गः ।
 
क्षिप्तोऽङ्गन्दः क्षितिमभूगमितोऽग्निसुनुः पिष्टो नलः कमलयोनिसुतोऽवधूतः ।
तेन प्रसह्य पिशिताशकिशोरकेण तत्राहवे हनुमतोऽपि हतोऽवलेपैः ॥ २२ ॥
तं भास्करिः स्फुरितभास्वरवक्तूबिम्ब: संवर्तकालतिमिरौघमिवापतन्तम् ।
अभ्यासदत् प्रततपादपशैलदृष्टिः विश्रामदृष्टसुविशिष्टतरंप्रतापः ॥ २३ ॥
ऊचे स तेन रविनुरभिप्रवृत्तो घृष्टेन कच्चिदधिगच्छसि बाहुयुद्धम् ।
ओमित्युदीर्य रभसोन्नतपुच्छकोटिरास्फोटयद्विकटव वलीमुखेन्द्रः ॥ २४ ॥
रक्षः ठोरकरघातविजृम्भमाणस्वोरःस्थसव्य भुजमण्डलचण्ड नादम् ।
उन्नद्धगाढघनकर्परैमाजिमृध्नि रेजे नियुद्धरभसेन रथावतीर्णम् ॥ २५ ॥
तौ नर्तकाविव ततः क्षणमेकमलौ तुल्याहवोत्सव समागमजातहर्षौ ।
संघर्षहेतुभिरुपस्थितसैन्यचक्रौ चिक्रीडतुर्विकटरीतिभिरङ्गहारैः ॥ २६ ॥
 
चूर्णीकृताभिरपविर्घ्यं गुणान्मणीभिः वक्षोऽकिरत्कषिकरोटिभिरेव रक्षः ।
शैलैश्च मुष्टिदलितै छुरयाम्बभूव पृष्ठोपनीतवनमालमुरो हरीशः ॥ २७ ॥
तौ चित्रहस्तरचनारचितेन्द्रजालौ भूयश्च' हस्तपुटमुष्टिनिविष्टाशल्यौ ।
निर्व्यूढबाहुयुगलच्छटकौदिभेदादुतर्केरनुपदं मृधमारभेताम् ॥ २८ ॥
 
नक्तञ्चरेण कपिराट् पिपिषे सुवेले तेन क्षणादविकलेन स चिक्षिपेऽब्धौ ।
तत्कालमेव कलिताङ्घ्रियुगः सपत्नं योनि परमनयद्भ्रमणावसाने ॥ २९ ॥
तेनाप्यकारि समुपेत्य स पूर्णकुम्भः कुम्भेन चुम्बितभुवा विदधे वराही ।
स्वाङ्गानि कच्छपिकया कपिचक्रवर्ती संहृत्य न प्रचलति स्म चलत्यरातौ ॥३०॥
अत्युग्रमुष्टिकुलिशाहतिपिष्टनिष्कावत्युद्धुराङ्घ्रियुगलङ्घितमौलिबन्धौ"।
आघोषनिर्गतनिदाघकृताङ्गरागौ तौ रेजतुः स्फुटरुचा निजविक्रमेण ॥ ३१ ॥
एकेन घृष्टमैपरेण दृढं निपिष्टमन्येन रुद्धमपविद्धमथेतरेण ।
निर्भग्नमस्थि पटिति॰ स्फुटनादमन्येनान्येन वैर्म चटिति त्रुटदाशु कृष्टम् ॥ ३२ ॥
 
१. B समापि कोपः । B C जजान कोपः । २. CD तरलारिजन ३. A तिप्रविष्टो ४. BC ल्गु
५. A बन्धुर ६. A द्ध ७. AC D नाम् ८. BCD रक्षोऽभिनत्करिकुथादिभिरेकवक्षः । ९. BC स्व
१०. BC शल्यौ ११. B CD मुद्गमुसलोत्कटकादि १२. A त्य १३. A एवम् १४. A म्नोऽपि १५. BCD
द्रुमना १६. B लितःप्र १७. BC रत्नौ १८. A अप्यौध १९. A पृष्ठ २०. C मडि २१, B_C च