This page has not been fully proofread.

३२४
 
कुम्मनिकुम्भवधवर्णनो माम
 
एषोऽन्तकाधिकभयङ्करसंप्रहारः कुम्भः कुमारपृतनापतिरग्रतो वः ।
संभूयतां त्यजतं चापलमित्यवादीत् रुष्टः पुलस्त्यकुलमौलिमणि : लवङ्गानें ॥ ११ ॥
बभ्रुर्ध्वमूर्धजनिबद्धकरालमौलिं तं क्रूरकेकरॅविलोहितमण्डलाक्षम् ।
उत्कृणितोष्ठर्पुटविस्फुटदंष्ट्रमापुँरुद्वीक्ष्य रोद्धुमसहाः कपयः प्रकम्पम् ॥ १२ ॥
किं विद्विषोऽप्युपचरत्यधुर्ना सुषेणो यन्नोऽभिषेणयात संप्रति कुम्भकर्णः ।
तत्तुल्यमात्मजमुदीक्ष्य तदा क्षमन्त (?) इत्यूचुरुज्झितगृहीतभयाः प्लवङ्गाः॥१३॥
सोत्साहमुक्तसविडम्बरसिंहनादः संहारकालघनमेदुरकायबन्धः ।
तेनेऽन्धकार्रमुपरुध्य सहस्रभासं सोऽस्राशनैः समरभूमिसैदां कपीनाम् ॥ १४ ॥
तं संस्मरन्निजपितुर्निकृतिप्रपञ्चं कुम्भः क्रुधा विवृतरौद्रमुखान्तरालः ।
और्वः समुद्रसलिलौघमिवावसानं तन्नेतुमारभत कीशबलं बलीयान् ॥ १५ ॥
 
आक्रान्तसंमुखसमस्तनभोऽन्तरालमज्ञातनिष्पतितरामशरावलीकम् ।
आलोक्य कङ्कटकरालमुरैस्तदीयं दूराददुः " प्लवगवीरबलानि पृष्ठम् ॥ १६ ॥
 
१५
 
कैश्चिद्विवृत्य विर्द्वैतप्रतिघैरघानि कैश्चिद्यतैर्जि स विदूरत एव वीरः ।
कैश्चिद्व्यडम्बि सुखवैकृतडम्बरेण कैचित् परीत्य परुषाणि बहून्यभाणि ॥ १७ ॥
 
इत्यग्रतः कपिभिराहवकेलिलोलैः प्रत्याहृतेषु पुनरुक्तमुपप्लवेषु ।
क्ल।न्तासु चाभिसरडिम्भचमूषु कुम्भः संजातकर्कशविहारकुतूहलोऽभूत् ॥ १८ ॥
ताः पांसुपर्णतृणशाखिमहीधराणां वृष्टीविंधूय विदधे स वलीमुखेषु ।
केऽमी पुरः कृमय इत्यनुदीरितास्त्रः शस्त्रव्ययं सदृशसंयुगसंनिबद्धम् ॥ १९ ॥
चुक्षोद कोटिमपिनट् प्रयुतं प्रहस्य चिक्षेप लक्षमनवेक्ष्य बभञ्ज पद्मम् ।
शङ्कु· समीकतलनिश्चलमुच्चखान शाखामृगप्रवरयोधपताकिनीनाम् ॥ २० ॥
स ज्यातलध्वनिविभिन्नदिगन्तरालश्चस्खाले न कचिदपि क्षणदाचरेशः ।
बभ्राम संयति युगान्तमरुत्प्रचण्डो निरृष्टनीरदलघून प्लवगान् धुनानः ॥ २१ ॥
 
१. D जघन २. A त्रस्तान् ३. BCणि ४. Dङ्गाः । ५. BCD रित ६. BCD दष्टोष्टमु-
दुरविनिर्गत ७. A मीयुः D भासम् ८. B C D नसून् ९. A तदीयमन्तरि । १०. BCD स्वेनात्तसार
११. B C D स प्रासरत् १२. B C सीम १३. Aकनी । १४. A च १५, A ययुः १६. A त C
१७. BDस B Cव १८. B C क्रुद्धः १९. BCD चुक्षोभ ।