This page has not been fully proofread.

षट्त्रिंशः सर्गः ।
 
अथ षट्त्रिंशः सर्गः ॥
 
+N
 
३२३
 
तेनोत्तमोत्तमनिजध्वजिनीपतीनामत्याहितेन हतशेषचमूजयाशः ।
ऊचे शुगन्तरितयुद्धरसो दशास्यः कुम्भेन डिम्भपृतनापतिपुङ्गवेन ॥ १ ॥
देव प्रसीद तव कः पुरुषाघमोऽसौ जाने शयान इव तेन हतः पिता मे ।
प्रत्यग्रबोधरभसे भवतिं क्व पातस्ताते विलुम्पति वलीमुखयूथपौघान् ॥ २ ॥
आसीदसौ विजयवेगवशात् प्रमादस्तातस्य यत्कबलितः कपिराण्ण र्हेत्वा ।
तत्कारणं मरणमस्य रणेऽधमे वा सृष्टं किमत्र विधिना यर्मिंतः करोतु ॥ ३ ॥
एतानि शोकतिमिरोपहतच्छवीनि राजन्ति राक्षसपते न तवाननानि ।
तत्प्रागिव ज्वल पुलस्त्यकुलप्रदीप कस्ते विपक्षशलभेषु महाविषाः ॥ ४ ॥
दूरं व्यतीत्य कषिकर्दममुद्धृतेन ग्लॉनारविन्दलघुना मनुजाननेन ।
क्रीडन् करिष्यति समीकसरोनिवृत्तस्त्वां कुम्भकर्णतनयः सहसा सहासम् ॥ ५ ॥
 
किं शक्रजित्प्रभृतिभिर्युवराजवीरैः ज्यायोभिरूर्जितसुराजिनियोजनीयैः ।
बालेषु लोलकपिकीटकुलक्षयाय मामेकमादिश निकुम्भमथानुजं मे ॥ ६ ॥
वित्रब्धमादिश किमाहरंतु प्रियं ते राजन् प्रियावरजसंभव एष कुम्भः ।
संभावयैनमनुरूपनिदेशदानाच्छिन्धि द्विषन्निधनसूत्रमिदं प्रदीर्घम् ॥ ७ ॥
कः कर्कशाहवसहे सति कौम्भकर्णौ वीरान्तरार्भकचमृघटनादरस्ते ।
रौद्रौ" स्थिते मघवतो रिपुनिग्रहार्थं देवात्मजेषु न वलन्ति विलोचनानि ॥ ८ ॥
 
१२
 
भ्रातुः सुतं तमिति वादिनमादरेण संप्रेक्ष्य पङ्किवदनः सदनं विवेश ।
कुम्भः स्मृतागतसमस्तबलाङ्गभेदः संभिद्यते स्म हरिवीरवरूथिनीषु ॥ ९ ॥
तेषामुदारतरसौं हरियूथपानां तेषाञ्च तीव्रमहसीं निकषासुतानाम् ।
जज्ञे मिथः प्रथमेमे॑क्रमसंप्रवृद्धं युद्धं ततस्तुमुलतुर्यरवोर्मिरौद्रम् ॥ १० ॥
 
१. DC सुता B चा । २. A यो । ३. स बत ४. BC ग । ५. A B मृ । ६. D घटि । ७. B
D १०. CD षन्नि धनतस्त्वमदं ११. B C दे १२, A रिपु
 
CD वसा ८. A ते ९. BC
 
१३. B C D मन १४, D नीचमन १५. AC मथन