This page has not been fully proofread.

कुम्भनिकुम्भवधवर्णनो नाम
प्रमृष्टः संजज्ञे कथमपि स तावत्प्रतिचमू-
जिघांसाबीभत्सो दशवदनसेनाकलकलः ।
श्रुतोऽभूत्यर्थ चिरचकितनाकिश्रुतिसुखो
 
जयोद्घोषः स्फीतः प्लवगशतजन्मा रघुपतेः ॥ १२४ ॥
 
गतवति लयं दिक्षु ध्वान्तैः सहास्रभुजां बले
मुखरुचिरुचा दीप्त्या विष्वग्विजित्य चकासतः ।
स्फुटपरिमलामातन्वानाः प्रसिद्धिसरोजिनीं
जगदुरुदयं रामार्कस्य प्लवङ्गमरीचयः ॥ १२५ ॥
 
जयति मुग्धमृगाडून्सुतो बुधः सुरवधूशतगीतगुणोदयः ।
कविगुरूपनतिक्रमवर्धितः स्वपरभागविशेषसमुच्छ्रयः ॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये राजकुमार चतुष्टयीकदनमेघनादब्रह्मास्त्र मोक्षणससैन्यरामवि-
कलताहनूमदोषधिसमानयनवानरसेनोल्लाघतावर्णनो नाम पञ्चत्रिंशः सर्गः।