This page has not been fully proofread.

पञ्चत्रंशः सर्गः ।
 
कथ्यमानः सुषेणेन लज्जमान इवानिलिः ।
पपाताद्भुतमुग्धस्य रघुनाथस्य पादयोः ॥ ११२ ॥
एते प्राणास्त्वमस्माकमिति गद्गदभाषिणा ।
उत्थाप्य संभ्रमेणासौ रामेण परिषस्वजे ॥ ११३ ॥
 
साऽथ प्रभाता रजनी रामसेना च सोत्थिता ।
स्मरन्ती रात्रिवृत्तान्तं स्वप्नतुल्यमिवाद्भुतम् ॥ ११४ ॥
सुषेणं तुष्टुवुः केऽपि तुष्टुवुः केपि चौषधीः ।
तुष्टुवुः स्तुत्यकर्माणं केऽपि केवलमानिलिम् ॥ ११५ ॥
अन्योन्यसह्यप्रश्नेन प्रमोदेन महोत्सवैः ।
ययौ कपीनां तदहश्चिन्तामनेन रक्षसाम् ॥ ११६ ॥
 
राक्षसाना मनिष्कासाज्जाततत्कदनत्वरः ।
लङ्कादाहाय सुग्रीवः प्रमुखानादिशत्कपीन् ॥ ११७ ॥
 
तामथोद्दीपयामासुः प्रविश्य कपयः पुरीम् ।
स विशालशिखो बाह्नदूरं ग्रामप्यदीपयत् ॥ ११८ ॥
तेनादीपनकोपेन कपस्तानाततायिनः ।
पेतुः पिशाचममुखाः संभूय पिशिताशिनः ॥ ११९ ॥
रक्षोभिरनुबद्धस्य कपिसैन्यस्य निर्यतः ।
सस्रतुः सज्यधन्वानौ रक्षार्थ रामलक्ष्मणौ ॥ १२० ॥
रामलक्ष्मणबाणानामासारं सोदुमक्षमाः ।
विविशुर्विग्रहखलाते लङ्कां राक्षसर्षभाः ॥ १२१ ॥
 
अन्येऽपि ये पुण्यजनाः स्वनाशं निश्चित्य निश्चक्रमुराहवाय ।
न तेऽपि काकुत्स्थशरस्रवन्तीपूराहताः स्थातुमलंबभूवुः ॥ १२२ ॥
सा यामिनी सङ्कुलजन्यदोलाकोलाहलेनोभयसैन्यजेन ।
अगादगाळीवलयप्रतिश्रुत्मतिश्रुताशेषविहेण ॥ १२३ ॥
 
४१