रामचरितम् /352
This page has not been fully proofread.
३२०
राजकुमारचतुष्टयीकदनादिवर्णनो नाम
मानसे सरसि स्नात्वा नत्वा विघ्नविनायकम् ।
शिवार्पितमनाः पुण्यं तमारोह महीधरम् ॥ ९९ ॥
गणगन्धर्वयक्षाणामृषीणामूर्ध्वरेतसाम् ।
तत्र क्षोभमकुर्वाणः प्राप्स्यसि त्वं महौषधीः ॥ १०० ॥
सङ्गः क्वापि न कर्तव्यः कृती शीघ्रमवातर ।
जीवन्तु सर्वसैन्यानि यशः स्वीकुरु शाश्वतम् ॥ १०१ ॥
ऊचे तमृक्षराजोऽपि शीघ्रं साधय मारुते ।
राघवार्थस्त्वयाऽऽरब्धस्त्वयैवाद्य समाप्यताम् ॥ १०२ ॥
वह गुर्वी धुरमिमामञ्जनासुत पाहि नः ।
समे सर्वे वयममी विषमे' विषमे भवान् ॥ १०३ ॥
तद्वाक्यं वृद्धयोरोमित्यादाय शिरसाऽऽनिलिः ।
वर्धमानः सुवेलाग्रा द्रागगच्छदुदङमुखः ॥ १०४ ॥
तत्पादभरभग्नानां पततां शिखराश्मनाम् ।
रवेण रावणो निद्रां विजौ विजयाहृताम् ॥ १०५ ॥
ते हनूमति विश्वासाल्लब्धाश्वासा इवाभवन् ।
मूले मनुजासंहस्य ऋक्षराक्षसवानराः ॥ १०६ ॥
उत्तरस्यामथ दिशि ददृशुस्ते सविस्मयाः ।
भित्वा दूरं तमो नैशमुन्मिषन्तीस्ततीस्त्विषाम् ॥ १०७ ॥
ते मारुतिमभिज्ञाय जिज्ञासानन्तरं ततः ।
स्फुटमालोक्य तं शलं दूरं ववृधिरे मुदा ॥ १०८ ॥
विलम्बशङ्की हनुमान् कृत्स्नमेव महीधरम् ।
आजगाम तमादाय पुरस्तेषां मनोरथात् ॥ १०९ ॥
यथाविधि यथाबाधं ताः प्रयुज्य महौषधीः ।
स चक्रे बलमुल्लाघं लाघवेन महाभिषक् ॥ ११० ॥
प्रत्याव्रजन्निजस्थाने निधायाद्रिं महौषधिम् ।
हनुमाननुमानेन विज्ञातव्यगतागतः ॥ १११ ॥
१. A ये