This page has been fully proofread once and needs a second look.

जातं विभातममलं पश्य प्रावृष्णिशा गता ।
उत्साहकमलस्यायं विकासावसरस्तव ॥ २१ ॥
 
उच्छ्रयं तीरतरवो रवेरूर्जमभीषवः ।
मदं गोपतयो गृह्नन्त्यभियोगं जिगीषवः ॥ २२ ॥
 
प्रसीद दीयतां कर्णः कुजद्भिः कुररैरमी ।
प्रार्थयन्तीव सञ्चारं[^१] तटा: कर्दमदुर्गताः ॥ २३ ॥
 
भुवि भास्वदभीषूणां[^२] त्वदिपूणाञ्च शत्रुषु ।
अयं संपतितुं कालः स[^३] दुष्कालोऽतिवाहितः ॥ २४ ॥
 
सुदूरोन्नतपर्यन्तास्तीर्यन्ते सङ्क्रमैरिव ।
अनल्पगाधाः सरितः तरुभिः पूरपातितैः ॥ २५ ॥
 
आविष्कृतविशुद्धिभ्यां नद्यः सुमहिला इव ।
कुलाभ्यामिव कूलाभ्यामापत्स्वपि चकासति ॥ २६ ॥
 
जलजानां सुमनसां वयसां जलसेविनाम् ।
अद्य प्रतिजलाधारं सामग्र्यम[^४]वलोक्यते ॥ २७ ॥
 
युयुत्सारभसोत्खातसरित्खातकरोधसः ।
ककुद्मन्तो मदकलाः कलयन्ति जगन्त्यधः ॥ २८ ॥
 
विश्वेश कुरु विश्वासमावर्तन्ते न ते घनाः ।
अमी श्यामलयन्त्याशाः शुकाः शालिवनोन्मुखाः ॥ २९ ॥
 
मृगाः सम्प्रति शालेयं सम्प[^५]न्नं सम्पतन्त्यमी
साकेतमधितिष्ठन्तमर्थि[^६]नस्त्वामिवोन्मुखाः ॥ ३० ॥
 
कार्यदिग्गृह्यतां काऽपि किमार्य स्थीयते वृथा ।
एवमेवायमस्माकमि[^६]ष्टोऽपि किमुपैष्यति ॥ ३१ ॥
 
विजयाय भवासीनो मय्यर्पितवपुर्भरः ।
मूर्च्छानु[^८]वलनव्यस्तः प्रे[^९]स्तरस्त्यज्यतामयम् ॥ ३२ ॥
 
[१.] A C. सम्पातम् ।
[२.] B. शूणाम् ।
[३.] C. सु ।
[४.] BC. मि ।
[५.] C. सङ्घशः ।
[६.] A. न्तिवन्दि ।
[७.] A. षो ।
[८.] A. न्तच ।
[९.] A. स्र ।