रामचरितम् /349
This page has not been fully proofread.
पञ्चत्रिंशः सर्गः ।
मीलत्येष प्रमीलावान् सर्वशिल्पनिधिर्नलः ।
अयमात्मास्त्रशय्यायां शेते शतबलिर्बली ॥ ६० ॥
शरभः शरतल्पेऽस्मिन् निद्रामेति निरायताम् ।
प्राणैः प्रभुप्रसादानामनृणत्वमुपेयिवान् ॥ ६१ ॥
अयं बत नतो मन्त्री निजमन्त्रं बहिर्गतम् ।
अनादृत्य वलत्याराद्विनतं प्रति चक्षुषा ॥ ६२ ॥
अयमुज्झितसर्वाङ्गस्वाम्यः समरसञ्चरात् ।
क्रव्यादान् पतितोऽभ्याशे निषधो न निषेधति ॥ ६३ ॥
अयमप्रतिबोधाय प्रसुप्त इव पन्नदः ।
पनसः पश्यतीवायमुद्वृत्तारुणलोचनः ॥ ६४ ॥
विडम्बितोऽयं गवयश्छिन्नपुच्छो मुमूर्षति ।
बत वीतमदः सीदत्ययं लूनकरो गजः ॥ ६५ ॥
एते बहिंर्गते दूरं वीक्षणे वेगदर्शिनः ।
अलुप्तप्रत्यभिज्ञानाः संपातेः शकला अमी ॥ ६६ ॥
अयं गवाक्षः पतितो गोलाकूलचमूपतिः ।
विशीर्यते गवस्यैतद्वपुर्विपुलतेजसः ॥ ६७ ॥
एष गाढप्रहारोऽपि मैन्दो मन्दं न चेष्टते ।
द्विधा कृतोऽपि द्विविदो वंदतीवाननत्विषा ॥ ६८ ॥
श्रुतः पद्मो विकलितः क्व बतेत्थं शिलीमुखैः ।
कुमुदस्य च कुत्रेदं निशि व्यसनमीक्षितम् ॥ ६९ ॥
कोटयः कपिमुख्यानां तेनैकेन दुरात्मना ।
अद्य विध्वंसिताः सायं धिम तीर्यसाक्षिणम् ॥ ७० ॥
. हनूमन्तं न पश्यामि स मन्ये पुण्यवान् गतः ।
प्रत्यानेतुमसूनेषां सशरीरोऽन्तकालयम् ॥ ७१ ॥
ऋक्षराजस्य कानु स्यादिह प्रतिसरस्थली ।
कं पृच्छामि शवानीके तस्योद्देशं महामतेः ॥ ७२ ॥
1. D चगर्हि
३१७