रामचरितम् /342
This page has not been fully proofread.
कुम्भकर्णवधवर्णनो नाम
स्नेहस्याभजत सदृक् तव प्रहस्तः स्वस्रेयः परमयमेव कुम्भकर्णः ।
किं वक्ष्यत्यफलविलम्बितानुयात्रो निर्लज्जः कुलरिपुरेष रावणस्तु ॥ ५८ ॥
पुत्राक्ष श्रयसि सनाथतामिदानीं नीतस्ते निकटमयं द्विषा पितृव्यः ।
भ्रातृर्व्यः' परिगत एष दुःखमास्ते दोष्णीह च्युतवति केवलं दशास्यः ॥ ५९ ॥
विस्रब्धं वदत बुधाः शृणोमि सर्वे किं कस्यापहृतमहं समर्पयामि ।
अन्यायास्त्रिजगति यद्भुजाश्रयेण प्रारब्धाः स मम गतोऽद्य कुम्भकर्णः । ६० ॥
जन्तूनामुचितमनित्यता न पश्यत्युत्पादं परमियमीक्ष्यते नृशंसा ।
क्षुद्रायां यदयमगच्छदन्तमाजावव्याजप्रथमजभक्तिरेकशूरः ॥ ६१ ॥
मूर्धाऽयं समधिगतः समग्रमौलि : प्रत्याः समिति विचीयतां कबन्धः ।
सुभ्रातुः शकलयुगं विधाय वक्षस्यक्षे पी प्रविशतु रावणः कृशानुम् ॥ ६२ ॥
वाचस्ताः श्रवास कृता न यद्गुरूणामात्तं यन्न च वचनं विभीषणस्य ।
तस्यैतत्कटुतरपाकमक्रमेण क्रूरस्योपनमति कर्मणः फलं मे ॥ ६३ ॥
कं वीक्षे क्व बत निवेदयामिं दुःखं कुत्रोञ्चैररिवधसंश्रवं शृणोमि ।
त्वय्येकप्रकटपराक्रमे गतेऽद्य भ्रातर्फे भुवनमिदं विभाति शून्यम् ॥ ६४ ॥
शोकार्त पितरमिति प्रतीतसत्त्वाश्चत्वारः प्रियतनयाः समं समीयुः ।
सातैस्त्रिभिरवलोकितः कनिष्ठैर्येष्ठत्वादिदमवदद्वच स्त्रिमूर्धा ॥ ६५ ॥
किं तात त्रिभुवनजित्त्वमेकशूर: शोकाय स्वमिति निहीनवद्ददासि ।
नन्वेभिः कृतबहुविद्रबाय दोर्भिर्दातव्यस्तव रिपत्रेऽस्ति कालधर्मः ॥ ६६ ॥
सा तात श्वशुरसमर्पिताऽस्ति शक्तिस्तचोग्रं त्रिनयनदत्तमस्ति शूलम् ।
अस्त्यस्त्रं तदखिलमागतं विरिञ्चेः किं चेतश्चकितमिवाद्य ते विभाति ॥ ६७ ॥
शक्रारिः स तव तथैव सुनुरास्ते पश्यैनं सुतमतिकायमन्तिकेऽपि ।
सन्नद्धौ सुरमनुजान्तकावितस्त्वां याचेते रिपुकदनं मदाननेन ॥ ६८ ॥
मय्येव प्रकटय वा पितः प्रसादं प्रेक्षस्व प्रियसुतमाहवोद्धुरं माम् ।
कत्थस्व प्रथममिहोद्धृतोद्धतारिस्तीत्रोऽयं विरमतु कुम्भकर्णशोकः ॥ ६९ ॥
१. BC सोदर्यैः २. D पूरे ३. BCD स्याक्षेपात् ४. BC वथ त्वां