रामचरितम् /340
This page has not been fully proofread.
३०८
कुम्भकर्णवघवर्णनो नाम
मच्छन्नः पवनसुतस्तमन्वयासीन्मूर्छातः कपितिलकं जहारै कालः ।
पाणिभ्यां रदशिखरैः स वेगशाली तस्यारेः सपदि चकर्त कर्णनासम् ॥ ३४ ॥
संरुद्धोऽनिलतनयेन सोऽथ विग्रॅः सुग्रीवं प्रति विनिवृत्य संप्रधावन ।
निष्पीय स्वरुधिरमत्रभुक् प्रमत्तस्तस्यापि व्यधित वघाधिकामवस्थाम् ॥ ३५ ॥
निस्संज्ञं कपिमपहाय कुम्भकर्णः संरब्धो दशरथ सुनुमाहतोचैः ।
स स्मेरस्तमधिरुषं ववर्ष बाणैर्घोणास्त्रस्त्रपितकरालदन्तमालम् ॥ ३६ ॥
आह स्म स्मितकुपितः स राममुच्चैर्जानीषे मनुजपशो न मां यथावत् ।
सञ्जातस्तव खरदूषणाख्यरक्षःसामन्तापशदवधात् किलावलेपः ॥ ३७ ॥
चक्षुष्मानसि यदि पश्य नः प्रमाणं घोणायाः श्रवणयुगस्य किं क्षतेन ।
दंष्ट्राणां पटलमुदीक्ष्यतामिदं भोः स्वानर्थे हुतकपिचक्रचक्रवालम् ॥ ३८ ॥
पाश।सिद्रुघणपरश्वथाङ्कुशानां को नु त्वं कुसुमपलाशकोमलाङ्गः ।
आगच्छ प्रहर निषीद नश्य वा त्वं नात्यर्थं त्वयि रुषमेति कुम्भकर्णः ॥ ३९ ॥
किं नामोपहसास नः शनैस्तथैव स्वास्थ्यं तेऽनधिगतमेव किं गतासोः ।
तिष्ठारान्निजनिधनत्वरोत्थिता चेन्निकः पतसि पृषत्कपाणिरेषः ॥ ४० ॥
इत्युक्त्वा तमभिपपात जातरोष: संमृद्रन् लवगबलानि संपतन्ति ।
काकुत्स्थः पुनरपि सस्मितः शिताग्रैर्जग्राह द्रुतमिषुभिस्तमापतन्तम् ॥ ४१
संपातिः शतबलिरङ्गदः सुषेण: सुग्रीवः शिखितनयः समीरजन्मा ।
तस्योच्चैरधिरुरुहुर्जगत्रयारेरङ्गानि पुतिरभसाः लवङ्गवीराः ॥ ४२ ॥
सौमित्रिर्घनशरसंहातप्रमाक्षादिक्ष्वन्धन्तम इव तस्य सन्ततान ।
निर्धूय त्रिदशजयी विपाठजालं रामस्य स्फुटमिषुवाहिनीं जगाहे ॥ ४३ ॥
नालीकै भ्रमरविपाठ सिंहतुण्डैरर्धेन्दुक्षुरविहगास्यवत्सदन्तैः ।
पर्याप्तं वपुषि निशाचरस्य तस्य प्राणानां गमनपथं ससर्ज रामः ॥ ४४ ॥
बाणानां मनुजपतेर्विषह्य वेगं जग्राह द्रुघणमसृग्भुजामधीशः ।
पूर्वस्त्रग्व्ययँचकिता नभवरौघाः पर्यन्ते लयमभजन्नभोऽङ्गणस्य ॥ ४५ ॥
१ BCD न्तंकपितिलकेचका २. BC वेगात् ३. BC स्थानत्वंगत ४ D न्तः ५. A स्तह् ।