This page has not been fully proofread.

चतुस्त्रिंशः सर्गः ।
 
तारेयश्चरणरजोऽङ्सिपैर्दुधाव क्षोणीधैर्दहनसुतो ममर्द जवे ।
तस्यास्यं झटिति खाँदिखण्डखाद्यैः सामीरिः समरखले समाससाद ॥ २२ ॥
संसज्य द्रुमधरणीधजालमन्ये निःशङ्क नभसि गयो हरीन्द्राः ।
तस्यान्तर्मदभरमन्थरस्य दस्योर्दष्ट्राणामकृषत किष्कुभिः प्रमाणम् ॥ २३ ॥
नीलाद्याः कपिपतयः सहस्रमाजावासीदन्नधरशरीर एव तस्य ।
सुग्रीवः कथमपि संभ्रमोद्धुरत्वाद्वित्राभिः प्ठुतिभिरवापदूर्ध्वकायम् ॥ २४ ॥
आसेदुर्मुकुलितचक्षुषः पुरस्तात्ताराद्याः कपिपतर्यंस्तमद्रिहस्ताः ।
कस्तस्य प्रलयपतङ्क मण्डलाभौ दृग्गोलावलमवलोकितुं द्विषत्सु ॥ २५ ॥
नापश्यत्प्रलघुतया बहून् नतोऽपि स्पर्शेन स्फुटमवधीद्वहूनुपेतान् ।
सोऽङ्घ्रिभ्यां मृद इव पर्यटन्ननैषीच्चूर्णत्वं रणचतुरान्बहून्हरीन्द्रान् ॥ २६ ॥
तावत्तं कपिमशका: समाकुलत्वं सङ्कीर्णे रणसदने समेत्य निन्युः ।
दुर्वारप्रतिघहुताशयोनिरुचैधूम्येव भ्रुकुटिरुदेति नास्य यावत् ॥ २७ ॥
स भ्राम्यन् मृधभुवि दृश्यते स्म देवैर्देहेन क्षतजविनिर्गमारुणेन ।
संचारी गिरिवि गैरिकस्रवन्तीसम्भिन्नाखिलदृषदां समुच्छ्रयेण ॥ २८ ॥
सं क्वापि द्रुघणमपातयद्गदां वा गम्भीरप्रतिघरयो निशाचरेन्द्रः ।
तद्भाद्दुद्रविणविलोकवीतगर्वा सर्वाऽसौ कपिपरिषद्दिशः पपात ॥ २९ ॥
संरुध्य स्वशपथदन्तिँभिः पुरोगान् जग्राह क्षतजभुजं भुजद्वितीयः ।
सुग्रीवः शिखरिभिरञ्जनासुतादिभेष्यौघत्वरितसमुद्धृतोपनीतैः ॥ ३० ॥
तद्देवैर्दिनपतिसंभवस्य भूयः संभूय स्तुतमितरेष्वदृष्टपूर्वम् ।
यत्तस्य प्रधर्नविमर्दसंप्ररूढप्रस्वेदः किमपि चुकोप कुम्भकर्णः ॥ ३१ ॥
 
३०७
 
तेनाहङ्कतिरशनाधुतापसारो घोराजिक्रतुचतुरेण चेष्टमानः ।
ग्रीवायां करयुगलेन पीडयित्वा सुग्रीवः पशुरिव साधितः शमित्रा ॥ ३२ ॥
हाहेति ध्वनिरुदभून्नभश्चराणां भूलोकः क्षयतमसीव नश्यति स्म ।
विन्यस्य प्लवगपतिं घिसंज्ञमंसे निस्त्रिंशः स निजपुरं प्रति प्रतस्थे ॥ ३३ ॥
 
BCD
 
१ C. खडा BCD षडा २. BCD न्यस्यद्रुत ३ Aङ्के BC कोरसिनिमितां
मायोरासीदनुदरसमीप ६, BCD अपिकप ७, ABC दत्ति ८. BC स्मै लग