This page has not been fully proofread.

२०६
 
कुम्भकर्णवधवर्णनो नाम
 
एतस्य त्रिजगदिदं तृणं रणेषु स्वप्नत्वं कुशलममुष्य विष्टपानाम् ।
निश्शङ्क' निवसति रावणोऽस्य बाहुमाकारव्यवहितशत्रुवाहिनीकः ॥ ११ ॥
 
सन्नद्धस्वसदृशवाहिनीसमग्रः सङ्ग्रामे क इव निवेद्यतामयं ते ।
वक्तव्यं किमपरमेधि सावधान: संजातं जगदखिलं तुलाधिरूढम् ॥ १२ ॥
सुग्रीवः स्वयमभवत्ततः पुरस्तादध्यास्तै श्वसनसुतः प्रदेशमूलम् ।
संवव्रुर्भयमितरे कथञ्चिदन्तः सौमित्रिं रघुपतिरन्तिके चकार ॥ १३ ॥
• यूथेन्द्रैरथ पृथुचन्दनाङ्गदाद्यैरायन्तैः पिशितभुजः प्रतीयिरे ते ।
संमूर्च्छत्खरजवकीर्णरेणुजातैर्जीमूताः प्रतिपवनैरिवोल्लसन्तः ॥ १४ ॥
तूर्याणांमुभयचमूसमुद्भवानां संमूर्छन्मलयसुवेलयोर्गुहासु ॥
मूकत्वं किमपि दिशन्नभश्वराणामातेने गगनमपारमारवोर्मिः ॥ १५ ॥
रक्षोभिः कपिषु शरैस्ततः प्रजज्ञे तैस्तेषु द्रुमगिरिदुर्दिनं वितेने ।
आवर्तैः कतिभिरैपि क्षपाचराणां स व्यूहः समजान कुम्भकर्णशेषः ॥ १६ ॥
नाश्रौषीत्कटुमपि सिंहनादमारान्नाद्राक्षीत् मलघुतयाऽग्रतोऽपि" किञ्चित् ।
जग्राह क्षैतजविलोकनात्स्ववर्ष्मण्यारम्भं कपिकबलाये कुम्भकर्णः ॥ १७ ॥
 
नादत्त प्रथमकपीरितान् महारानृक्षाणां न महदनीकमैक्षतापिं ।
सुग्रीवप्रहतिविबुद्धयुद्धकण्डू: संवेगप्रतिसदृशं च सचचाल ॥ १८ ॥
 
काभ्यांचित्प्रसभमपूरयत्कपोलौ जग्राह द्विजशिखरैर्यदृच्छयाऽन्यान् ।
जिह्वायां लयमनयच्च कांश्चिदञ्चन् प्राकाम्यं कपिषु कपित्थेँकेष्विवाप ॥ १९ ॥
भूयोऽन्यानभिमुखपातिनः सलीलं पर्यस्यन्नलिन इव प्लवङ्गयोधान् ।
निर्याणैद्युतिचकितामरमवीरः संरेजे त्रिजगदरातिगन्धहस्ती ॥ २० ॥
नासस्यश्रुतिकुहरेषु कामचा " निर्विश्य क्षितिधरकन्दरादरेण ।
तस्यान्तर्जठरविवर्तनाद्धि जग्मुर्ब्रह्माण्डोदरवलनं वलीमुखेन्द्राः ॥ २१ ॥
 
७१९
 
१. BCD त्वात् । २. A भिवर्तितः । ३. A स्तः । ४. BC चक्रु ५. A यान्तः CD यातः ।
 
६, Aषि । ७. BC रूपा ८. BC तत ९. Aपि १०. BC न्तिके ११. C क्षिति १२ BC मपि रणा
१३. B स्वैरं तं D स्वरंभ १४. A समं १५. BC केषां १६ A किमिच्छ १७. BD र्वा १८. A मा
१९. A रात्रि