This page has not been fully proofread.

चतुस्त्रिंशः सर्गः ।
 
चतुस्त्रिंशः सर्गः ॥
 
तथा गृही न पौत्राणां नवोढानां च योषिताम् ।
युवराजः कवीन्द्राणां प्रणयान्मोदेते यथा ॥
 
अन्येद्युः कृतसमरान्तरव्यवस्थः काकुत्स्थः सह सचिवैरदृष्टपूर्वम् ।
अद्राक्षीदशमुखमन्दिरोपकण्ठे देवारिं दिवमपिधाय निष्पतन्तम् ॥ १ ॥
 
३०५
 
कोऽयं भोः कषति किरीटकोटिभिः खं दंष्ट्राभिर्लिखति मुखानि दिग्वधूनाम् ।
पातालं गमयति मेदिनीमकाण्डे चण्डेन स्वतनुभरेण भूतभेदः ॥ २ ॥
साहाय्यं किमथ चिकीर्षति प्रपन्नो देहित्वं दशवदनस्य दुष्कृतौघः ।
विस्रब्धं विलसति पश्चिमः पुरेऽस्मिन्नुद्दामप्रणयपरिग्रहो गुणो वाँ ॥ ३ ॥
पौलस्त्यप्रतिघमहानिलप्रणुन्नो लङ्कायां किमयमुदेति कालमेघः ।
आहोस्वित् पितृपतिरस्रपैर्निरस्तः तानत्तुं बलिमभिलष्यतीत्थमस्मै॑त् ॥ ४ ॥
इत्युक्ते रघुपतिना सविस्मयेन प्रत्यूचे नतशिरसा विभीषणेन ।
आश्चर्य समुपगतेन वीक्ष्य वृत्रं सुत्राम्णा सुरगुरुणेव सादरेण ॥ ५ ॥
निर्यात स्फुटदशनो दशाननस्य भ्राताऽयं विपुलवपुर्ग्रहः कनीयान् ।
कुर्वाणश्चरणभराज्जगन्ति लोलप्रान्तेभक्षुभितककुम्भि कुम्भकर्णः ॥ ६ ॥
जित्वाऽसृङ्मधुमणिभिः " प्रबोधखेदं निष्क्रान्तः समरमहोत्सवाय नृत्यन् ।
एषोऽस्यत्युपचयिना मरुन्निकायाम् कायेन प्रलयपयोदमेदुरेण ॥ ७ ॥
उन्मौलिर्मणिवलयी विलोलहारो विच्छिन्नः समृगमदेन चन्दनेन ।
पौलस्त्यप्रणयपरिग्रहात्प्रसिद्धो रौद्रोऽयं रस इव रूपवानुपैति ॥ ८ ॥
विन्ध्याद्रेरपि विपुलः शरीरबन्धो धीः सूक्ष्मा कुशशिखरादपीष्यतेऽस्य ।
अन्यस्य व्रतसमुपार्जितः प्रतापः संजातः सह महसाऽयमद्भुतेन ॥ ९ ॥
जम्भारेरपि सरहस्यजृम्भकानामस्त्राणां प्रतिहतिरत्र सुप्रसिद्धा ।
मध्नाति त्रिजगति योधपुङ्गवानां शृङ्गाणि प्रसभमयन्तु मुद्ररेण ॥ १० ॥
 
१. B C तपौरा २. BC च्छोचते पुरा. ३. D णेन ४. A स्मात् ५. B सुखितः D मदनिष्प्र: C
ततिभिः ६. Dल ।