This page has not been fully proofread.

३०४
 
वशमुखयुद्धलक्ष्मणशक्ति भेदवर्णनी नाम
 
जनकेन्द्रसुतापतीषैवो हृदि रक्षोधिपतेरलम्भयन् ।
स्मरबाणरुजां विषह्यतामविषयैर्निजवर्त्मनां पदैः ॥ ९४ ॥
तमवोचत सर्वभावविद्भगवान् भग्नरणोत्सवादरम् ।
व्रज संप्रति जातवेदनो विरुजें त्वामिषवो रुँजन्तु नः ॥ ९५ ॥
 
पुनरागमनाय गम्यतां दशकण्ठ क्व तवानुयायिनः ।
द्रुतमेव विनश्य पश्य भोः प्रतिबुद्धाः कपिचक्रवर्तिनः ॥ ९६ ॥
इति वदत्यनघे स रघूवहे बहुसमीकपरिश्रमनिस्सहः ।
दशमुखः स्वपुराभिमुखं ययावनुबबन्ध न कश्चन कञ्चर्न ॥ ९७ ॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये दशमुखयुद्ध -
लक्ष्मणशक्तिमेदवर्णनो नाम त्रयस्त्रिंशः सर्गः ।
 
<
 
१. BD तां प्रती २. A नादैः ३. C रथम् ४. Aभ । ५. Dन ६. A तस्यतम् ।