This page has not been fully proofread.

त्रयस्त्रिंशः सर्गः ।
 
प्रणिपत्य स रामपादयोः प्रचचाल प्रधनाय धन्वभृत् ।
पुरतोऽस्य शरीरसौष्ठवं चकितः प्रेक्ष्य स राक्षसोऽभवत् ॥ ८२ ॥
विससर्ज निशम्य तद्धनुर्गुणटङ्कारमसावहङ्कृतिम् ।
प्रददर्श दिशं दशाननस्तदिषुच्छन्नमुखीं न कामपि ॥ ८३ ॥
क्षणमीलितलोचनावलिः श्लथसंग्रामखल भ्रमादरः ।
निषसाद निशाचरेश्वैरः प्रतते लक्ष्मणवाणदुर्दिने ॥ ८४ ॥
दृढदुष्करचित्रवर्त्मसु द्विषतः प्रेक्ष्य विशेषमस्रभुक् ।
प्रतिकारदरिद्रतामगादिषुयोग्यासु विरामवानिव ॥ ८५ ॥
बहुवानरवीरविग्रहश्रमसन्नापघनो दशाननः ।
क्षणमेकमरातिसायकान् प्रतियोद्धुं न शशाक सायकैः ॥ ८६ ॥
न ससर्ज शरान् स राघवे सदृशीं वीक्ष्य निजामिषुक्रियाम् ।
अधिकेन हि सिद्धिरिष्यते विधिना विद्विषि विक्रमोद्धुरे ॥ ८७ ॥
प्रजिघाय घनांशुमालिनीं मनुजे शक्तिमसावमानुषीम् ।
क्षयकालवलाहकोऽशनिं कनकप्राय इवावनीधरे ॥ ८८ ॥
विशिखैः शिखिभिस्तैतैरिव प्रतिकर्तुं न स तामपारयत् ।
चरितैरतिनिर्मलैरपि क्षयभागी नियतिं पुमानिव ॥ ८९ ॥
 
निपपात वसुन्धरातले स तया भिन्नभुजान्तरोऽनघः ।
निरुरोध निरर्गलानसून् सहसाऽस्योरसि वैष्णवं महः ॥ ९० ॥
 
उदियाय जयारवो महानथ रक्षःपतिमूलवर्तिनाम् ।
वतृषुर्भयमुद्रितर्मुख हुनेत्रोदकमम्बरौकसः ॥ ९१ ॥
 
धृतसरुजं जघन्यजं दधतं धाम निजं विशेषवत् ।
समवेक्ष्य समाययौ चिरादथ रामः सह तेन रक्षसा ॥ ९२ ॥
 
समरः स तयोरवर्तत द्युसदां यत्र चिरस्य भेजिरे ।
जयमेकतरस्य मार्गतां करयोरेव परिक्षयं सृजः ॥ ९३ ॥
 
१. BCD रर्षभः २. B मेवे ।
 
३०३