रामचरितम् /334
This page has not been fully proofread.
दशमुखयुद्धलक्ष्मणशक्तिभेदवर्णनो
नाम
स विवेद हतीर्न रक्षसः स्फुटवक्षाः पवनात्मजो हरिः ।
तमभाषत शोणिताशनं जहि जिह्मास्तव किंनु बाहवः ॥ ७० ॥
महर महरार्पितं वपुः क्व ममा पतितास्तवेषवः ।
भवता विजितः कथन्वसावमुना बाहुबलेन वासवः ॥ ७१ ॥
किमनोकहशैलदृष्टिभिर्मम मुष्टीर्विषहस्व भोः क्षणम् ।
इति वाचमुदीर्य संस्थितं निजघानोरसि रक्षसां पतिम् ॥ ७२ ॥
अथ तत्प्रथमं मिमील स प्रसभं जत्रुणि शत्रुणा हतः ।
अवलोक्य तदा तदद्भुतं पवनः पुत्रिषु तुष्टुवे सुरैः ॥ ७३ ॥
ननृतुर्मुदिता वनौकसो भुवि गात्रं मुमुचुः शुचाऽस्रपाः ।
जगुरप्सरसस्तदानिलेर्ग्रथितं वाचि भुजार्जितं यशः ॥ ७४ ॥
अवशिष्टतयाऽऽयुषो जगत्रितयारिस्तिमिरं ततार तत् ।
पुनराहत नित्रपः कपिं त्रपितं वन्ध्यतया निजाइतेः ॥ ७५ ॥
तमथ प्रहरन्तमन्तिकादवधीत्मत्युरसं दशाननः ।
अवहासविवर्धितक्रुधं कुलिशक्रूरतलेन मुष्टिना ॥ ७६ ॥
अतिवेलमरत्निकर्तरीतलमुष्टिमतलैरवर्तत ।
समरः समरोषवेगयोरुभयोस्तुल्यसुरासुरस्तवः ॥ ७७ ॥
श्रममाप चिरेण वानरः कठिनाङ्गः पिशितान्न विव्यथे ।
श्लथवाहुमहन्महाभुजस्तनुजं मर्मणि मारुतस्य सः ॥ ७८ ॥
निपपात कपिः स निःसहः सह वह्नेस्तनयेन रावणः ।
सुचिरं युयुधे महायुधो विविधायोधनमार्गवेदिना ।॥ ७९ ॥
तमपि क्लमलोलवालाधं ज्वलनास्त्रेण युयोज रावणः ।
अदहद्धरणीतलं गतं सुतहार्दान्न तमाश्रयाशनः ॥ ८० ॥
प्रधनाङ्गणमप्लवङ्गमं स चकार क्षणदाचरेश्वरः ।
तदुदक्ष्यि चुकोप लक्ष्मणः शरशिक्षां महतीमुदीरयन् ॥ ८१ ॥
१. BCD पाणि ।