This page has not been fully proofread.

त्रयस्त्रिंशः सर्गः ।
 
स जहास निशाचरेश्वरः पुरतस्तस्य विलोक्य चापलम् ।
प्रचुकोष चिरेण तं प्रति प्रतिक्रूरमहीधसंहतिम् ॥ ५८ ॥
शतमेकमसंभ्रमात् कपेः पिशिताशी निशितैर्निरन्तरम् ।
निचकर्त महामहीभृतां कदलीकाण्डसुखं शिलीमुखैः ५९ ॥
नतिवश्चैितमार्गणावलिर्वलितव्यर्थितखङ्गमुद्गरः ।
वितुदन्निकटेऽथं तेन स द्विभुजो विंशतिबाहुना ददे ॥ ६० ॥
स कपिः कुपितेन रक्षसा दिवि देवेषु रुदत्सु सारवम् ।
श्लथवा लधिरुद्वमन्नसृग्भ्रमयित्वा पिपिषे महीतले ॥ ६१ ॥
निममज्ज निजाङ्गजाम्बुधौ विधुरोऽष्टादशपद्मनायकः ।
ददृशे दशकन्धरः स्फुरन्नमरैस्तीर्णमहाहवार्णवः ॥ ६२ ॥
हरिकेसरितारचन्दनानथ मैन्दद्विविदौ दरीमुखम् ।
गवयं गवगन्धमादनौ पनसं पन्नसमङ्गदं गजम् ॥ ६३ ॥
रभरम्भगवाक्षगोमुखप्रमुखान् स्वामिमहोदयक्षमान् ।
समरे स ममाथ यूथपानगणेयानगणेयसाहसः ॥ ६४ ॥
तमुपेत्य जगाद मारुतिर्मरुतां शृण्वति सादरं गणे ।
गुरुशस्त्रहतान्वलीमुखानखिलानन्तरयन् स्ववर्ष्यणा ॥ ६५ ॥
निहतस्तनयो मयैव ते नगरी रावण भस्मसात्कृता ।
अपकारिणि तिष्ठतीह मय्यवधीः किं प्लवगाननागसः ॥ ६६ ॥
 
इति सत्यपराक्रमः कपिः स गदित्वा निननाद सिंहवत् ।
प्रववलग विलोलवालधिर्बलमुत्सार्य रुचैव रक्षसाम् ॥ ६७ ॥
 
तमुदीक्ष्य दशाननः स्मरन् सुतमक्षं विपुलाक्षमात्मनः ।
विपिनौकास तत्र सोऽक्षिपद्युषितं मन्युमिवाशुगच्छलात् ॥ ६८ ॥
 
प्रथमाहतैवत्प्लवङ्गमं स जघान क्षणदाचरेश्वरः ।
 
सहि तस्य सुताह्वयानसूनहरत् प्रागदहत् पुरं पुनः ॥ ६९ ॥
 
१. BCD र्जि २. BC टोय ३. A मथाइति ।
 
३०१