This page has not been fully proofread.

दशमुखयुद्धलक्ष्मणशक्तिभेदवर्णनो नाम
 
विलसन्नवलोक्यतामितस्तरला वीयतरङ्गशालिनि ।
अयमात्मचमूनदीमुखे मकराक्षो रजनीचरेश्वरः ॥ ४६ ॥
विकटेभघटः शठाह्वयो दशकण्ठप्रणयी निशाचरः ।
अयमीक्षितवानरावलिः सह वक्रेण विकत्थतेतराम् ॥ ४७ ॥
 
मुसलं मुहुरेष लालयत्यधिरूढो महिषं महोदरः ।
अतिकाय इति क्रमेलकैः क्रमसंवाह्यरथोऽयमत्रभुक् ॥ ४८ ॥
 
क्रथनोऽयमुरभ्रपृष्ठभागयमारूढशिवारथः ऋथः ।
विहसन्विघसोऽयमग्रतो घसनामायमनीकिनीपतिः ॥ ४९ ॥
क्रमते चरमं नरान्तको धुरि देवान्तक एष दीप्यते ।
अभितः पिशिताशनेश्वरं पृतने कुम्भनिकुम्भयोरिमे ॥ ५० ॥
 
द्विजकण्टकयज्ञकोपयोर्व्यतिमिश्रं बलमेतदग्रतः ।
पितृकाननकाननोत्थयोः शिखिनोरर्चिरिवैकतां गतम् ॥ ५१ ॥
चतुरङ्गपताकिनीपतिचतुरचण्डतमेषु कर्मसु ।
 
परमेश पिशाच इत्ययं पिशिताशी पिशितात्पतिप्रियः ॥ ५२ ॥
रथरेणुरयं प्रमाथिनः कदलीजालमिदं कपालिनः ।
अयमद्भुतरीतिभीषणस्त्रिशिरस्तुर्यरवो निशम्यते ॥ ५३ ॥
 
वदतीति विभीषणे रणस्तुमुलस्तुल्यबलावलेपयोः ।
उभयोश्च पुरोगसैन्ययोरजनि ग्रावजलौघयोरिव ॥ ५४ ॥
बहुविप्रकृतं निशाचरैर्निजसैन्यं समुदीक्ष्य विद्रवत् ।
अभिजन्यमजन्यवह्निवत्कपिराजः स्वयमेव पुष्ठुवे ॥ ५५ ॥
रुधिरारुणसङ्गराम्बरोद्यतसुग्रीवदिनेशदर्शनात् ।
विननाश विलोलतारकः स दशग्रीवचमूनिशागमः ॥ ५६ ॥
 
तरुणे तरणाविवोद्यति प्लवगे तत्र ततोग्रतेजसि ।
मृधपर्वणि भेजुरुच्चकैर्दशकण्ठाननराहवो रुषम् ॥ ५७ ॥
 
१. Aल। २. A काण्ड ।