रामचरितम् /331
This page has not been fully proofread.
त्रयस्त्रिंशः सर्गः ।
विपुलाधरपृष्ठरोपितस्फुटदंष्ट्राशनिकोटिभिर्मुखैः ।
ग्रसमान इवावलोकयन् शिथिलस्वस्त्ययनादर्शनरीन् ॥ ३४ ॥
अपकार मिवातिसन्धयस्तमसत्पक्षमिवापहेतवः ।
उपसेदुरुदायुधालयः क्षयकालीमलिनाः सनाभयः ॥ ३५ ॥
विकटाभरणाः सकङ्कटाः समदोल्लासितशातहेतयः ।
ययुराहवरागचञ्चलाश्चलयन्तः सकलां भुवं भटाः ॥ ३६ ॥
स्थगयन् गगनं दिशो नुदन् नमयन्नम्बुधिमेखलां भुवम् ।
सह बन्धुगणेन रावणो रणसंभोज्यकुतूहली ययौ ॥ ३७ ॥
जगदे तमुदीक्ष्य विस्मयाज्जगदेकप्रभुणा विभीषणः ।
महतोऽपि महानुपैति मामहँतोदग्रविभूतिरेष कः ॥ ३८ ॥
सदृशाः परिपार्श्वतोऽस्य के मरुतां पत्युरिवामराः सखे ।
अधमाहवलज्जयोज्झितं धनुरालिङ्गति मे करोऽधुना ॥ ३९ ॥
अनुरूपरणोत्सवागमप्रमदोल्लासलसन्मुखेन्दवे ।
विनिवेदयति स्म संभ्रमादिति तस्मै विशदं विभीषणः ॥ ४० ॥
अयमेव स राम रावॅणो रणरागोल्लसदुग्रविग्रहः ।
पिदधाति सहस्ररोचिषं दशचूडाभरणोपलांशुभिः ॥ ४१ ॥
ककुदानि महाधनान्यमून्यमुमुच्चैः परितश्चकासति ।
सुरदानवयक्षभागिनामुपनीतानि भयाधीश्वरैः ॥ ४२ ॥
अयमानकशङ्खगोमुखादिकसंख्यातिगतूर्यभेदभूः ।
ध्वनिरस्य पुरः पुरन्दरध्वजिनीवभ्रमणो विमूर्छति ॥ ४३ ॥
अयमेकनिधानमोजसामयमाश्चर्यसमृद्धिंभाजनम् ।
अलुनान्निजकन्धराटवीमयमग्रेऽनुपदं द्विषहुमान् ॥ ४४ ॥
अयमस्य च मेघनाद इत्यवलिप्तस्तनयो महेन्द्रजित् ।
चरतीद्धमृगेन्द्रकेतुना रथरत्नेन मनोरथाधिकम् ॥ ४५ ॥
B
१. BCD न्सुरान् २. Aभि ३. B तुमामहि ४. BCD सक्रमा ५. BCD रावणो रणे ६. BCD
दन्द्रवणो ७. A समस्त D विभूति