This page has been fully proofread once and needs a second look.

अभिनन्दविरचितम्
 
रामचरितम् ॥
 
प्रथमः सर्गः ।
 
अथ माल्यवतः प्रस्थे काकुत्स्थस्य वियोगिनः |
दुर्निवाराश्रुसंवेगो जगाम जलदागमः ॥ १ ॥
 
शशाम दृष्टिर्मेघानामुत्सङ्गे तस्य भूभृतः ।
विरराम न रामस्य धारासन्ततिरश्रुणः ॥ २ ॥
 
इतस्ततः परिणतिं भेजे बर्हिणकूजितम् ।
हा प्रिये राजपुत्रीति न रामपरिदेवितम् ॥ ३ ॥
 
काप्यभिख्या विरजसोः सूर्याचन्द्रमसोरभूत् ।
दाशरथ्योस्तथैवासीदयोगोपहता रुचिः ॥ ४ ॥
 
निर्मलेन्दु नभो रेजे विकचाब्जं बभौ सरः ।
परं पर्यश्रुवदनौ मम्लतुर्भ्रातरावुभौ ॥ ५ ॥
 
स्मर्तव्यकलिकाजालं जज्ञे कुटजकाननम् ।
आसीत्तथैव तु मनो रामस्योत्कलिकाकुलम् ॥ ६ ॥
 
प्रपेदे पुनरुद्भेदः शुचिनां[१] कच्छकेतकैः ।
उपक्रियायाः सदृशं नारेभे रविसुनुना ॥ ७ ॥
 
आकृष्टमालतीगन्धः सिषेवे राघवं मरुत् ।
आनीतमैथिलीवार्तस्तमार्ते न तु मारुतिः ॥ ८ ॥
 
---
 
१ AB चीनां | c शूचीना |