This page has not been fully proofread.

त्रयस्त्रिंशः सर्गः ।
 
समरे समरे बनौकसस्त्वदनीकैर्निहताः सहस्रशः ।
कियतामपि रक्षसां वधे विधिदोषात् किमिदं विषीदसि ॥ १० ॥
तव शक्रजिता सुतेन लाविषुरूपैरहिभिर्निषूदितौ ।
यदि नागरिपोस्समागमात्कथमप्युच्छ्रसितौ ततोऽपि किम् ॥ ११ ॥
युवराट् सहि देवं दीप्यते स गतः पत्ररथो यथागतम् ।
निरपत्रपयोः पुनस्तयोरसवः पादतले लुठन्ति नैः ॥ १२ ॥
प्रिययोधसमुद्भवाः शुचः सुचिरं चेतसि चत् प्रतिष्ठिताः ।
प्रयतस्व तदद्य सन्धये न रणो बन्धुँपरिक्षयं विना ॥ १३ ॥
अनुपालय वीर पुत्रकानपरित्रोः कुरुषे किमङ्गनाः ।
परिगृह्य स यातु मानुष मनुजस्त्वत्तनुजेषु जर्जरः ॥ १४ ॥
स्वजनैः समवैतु मानुषी भजतु त्वामनिशं विभीषणः ।
क्रियतां सदृशं न शोभते विसदृक् संश्रयणं तयोरिदम् ॥ १५ ॥
इयमुन्नतरत्नगोपुरा नगरी नाथ न शोभते तव ।
अनिमित्तहतर्क्षवानरव्रजबीभत्सतमोपनिर्गमा ॥ १६ ॥
 
बहवोऽद्य निशाचरा हताः कथिताः केवलमुत्तमास्तवं ।
अवशेषय नाथ बन्धुतामनुबन्धः समरस्य मुच्यताम् ॥ १७ ॥
 
अयमात्मपुरे कदा नु ते करुणः कर्णपथं समागतः ।
रजनीचरवीरयोषितामनुमारक्षणरोदनारखैः ॥ १८ ॥
क्षणमंत्र च नाथ वीक्ष्यतामियमग्निं विशती वराङ्गना ।
अपकृष्य सुताननोदरात् पतिलोकस्पृहया पयोधरम् ॥ १९ ॥
स विगाढरसो विलासिनां परिहासः स्मरणीयतां गतः ।
पुरि : परमेधतेऽधुना गणरात्रं परिदेवितध्वनिः ॥ २० ॥
निनदन्ति न वेणवः क्वचिद्धत वीणाः शयिता इवाधिना ।
करुणेन बलात्कृता तव श्लशृङ्गारपरिग्रहा पुरी ॥ २१ ॥
 
१. C दनेडल २. BC णि ३. Dव. ४. B सरणःसूनु । ५. A परिहाणं ६. Bनि ७. A मैथिली
८. D लोयलो । ९BC स्त्वयि १०. B थेगतो धूनिः ११. A तूर्यडम्बरः । १२. AD रिपुनः परिवर्तते ।
 
३८