This page has not been fully proofread.

३९६.
 
दशमुखयुंद्धलक्ष्मणशक्तिभेदवर्णनो नाम
त्रयस्त्रिंशः सर्गः
 
हालेनोत्तमपूजया कवितृष: श्रीपालितो लालितः
ख्याति कामपि कालिदासकृतैयो नीताः शकारातिना ।
श्रीहर्षो विततार गद्यकवये बाणाय वाणीफलं
 
सद्यः सत्क्रिययाऽभिनन्दमपि च श्रीह।रवर्षोऽग्रहीत् ॥
 
श्रुतमातुलमृत्युमीयिरे सचिवाः पङ्किमुखं शुचाऽऽकुलम् ।
अवलोक्य चिराच्चिरागतानथ निश्वस्य जगाद तानसौ ॥ १ ॥
बत सत्यममी वदन्ति यत्पृतनेशस्य रणाङ्गणागतौः ।
अपि वॉग्विषयं समर्थयेत् कॅलभेभ्यः क इवत्ययं हरेः ॥ २ ॥
जयतीह विधिर्न पौरुषं त्रिदशानां विजयो यदाहवे ।
निहतः स हुताशसूनुना कपिकीटेन ममाद्य मातुलः ॥ ३ ॥
श्रमयामि वृथा वरूथिनीः किम् दैवबलात्कृता इव ।
स्वयमेव समुत्क्षिपन् कपीन् कुपितः संज्ञपयामि तापसौ ॥ ४ ॥
अधमेऽपि रिपौ महीयसः सुधियः शासति यानमात्मना ।
यशसि स्वभुजैकसाधने परहस्ताश्रयणं प्रमादिता ॥ ५ ॥
 
रिपुरल्पमुखोऽपि धीमता न विषयो विसरन्विसर्पवत् ।
जनयत्यवलेपमूच्छितः स हि पीडां सकलाङ्गगामिनीम् ॥ ६ ॥
बदतौपयिकं समन्ततः प्लवगोत्थं कथमाशु भिद्यताम् ।
अधुनाऽपि समर्थ्यतां पुनः पणबन्धे सघृणो दशाननः ॥ ७ ॥
इति वाचमुदीर्य संसदि स्थितवन्तं विनयादिव क्षणम् ।
जगदुर्जगदेकविद्विषं तममात्याः स्तुतिपूर्वकं वचः ॥ ८ ॥
 
जितवानसि राक्षसेश्वर ध्वजिनीं तां मरुतमपीशितुः ।
हरयः समराङ्गणाद्दिशो गमिताः शुष्कदलोत्करा इव ॥ ९ ॥
 
१. D कव २ D र्मा ३. B शः प्रहतः लत्रङ्गमैः । C शः स्मरणं रणागतः । D स्समराङ्गणे हृतः
४. A ह ५. BD श६. BC किमि । ७Aर्नपुन C किमहं D यदम् ८. A नीनां मरुतापि यस्यते ।