This page has not been fully proofread.

द्वात्रिंशः सर्गः ।
 
बभञ्ज पत्रांणि जहार शस्त्रं नाहन्यत कापि जघान सर्वम् ।
एकः परं तत्र चिरं चकाशे' नीलो रिपुष्वाहितकालधर्मः ॥ ९६ ॥
पपात संयद्भुवि पातयित्वा कपीन्द्रकोटी कटकप्रसिद्धः ।
प्रहस्त इत्युच्चलितप्रतापः स दक्षिणो राक्षसराजहस्तः ॥ ९७ ॥
तस्मिन्महीयसि निशाचरनीडशाखि-
न्युन्मूलिते समिति नीलमहानिलेन ।
चक्रुर्महाकलकलं महता भयेन
 
ते गृध्रकौशिकमुखाः पिशितादसङ्घाः ॥ ९८ ॥
 
तमनलतनुजन्मा वानरः पातयित्वा
 
समरममरमुक्तैराचितः पारिजातैः ।
स्वबलनुतिनिषेधव्यग्रपाणिर्जगाम
 
लवगपतिसकाशं केसरैः स्वेददष्टैः ॥ ९९ ॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये धूम्राक्षाकम्पन -
वज्रदंष्ट्रप्रहस्तप्रमुखमहायोधवधो नाम
द्वात्रिंशः सर्गः समाप्तः ॥
 
१. BCD यन्त्रा २. BC पुरश्चकास ।