रामचरितम् /326
This page has not been fully proofread.
धूम्राक्षादिमहायोधवधो नाम
रूढारुणश्मश्रुजटाटवीकाः सृक्वान्तनिष्क्रान्तकठोरदंष्ट्राः ।
मिथोऽपि यत्सत्यमयुर्विशङ्कनं प्रहस्तनासीरनिशाचरास्ते ॥ ८४ ॥
मदोच्चलबोरैतरारबोर्मिंरा डम्बरस्तुर्यकदम्बकानाम् ।
घनप्रतिश्रुद्रलयो' विरिश्चेः कथंचिदण्डं न तदौ बिभेद ॥ ८५ ॥
तमापतन्तं विकटैर्बलाङ्गैर्विदुद्रुवुर्वीक्ष्य वनौकसस्ते ।
निनाय त।नग्निसुतः कथंचिदिवौकसः स्कन्द इवाभिजम्भम् ॥ ८६ ॥
प्रहस्तगुप्ताः पिशिताशिनस्ते विश्वस्तमीयुः समरस्थलीं ताम् ।
स्ववीर्यविस्रम्भनिराकुलस्य नीलस्य मूलं हरयः परीयुः ॥ ८७ ॥
रक्षोभटाः प्रष्ठभटान्तराले नीलस्य नालं मुखमीक्षितुं ते ।
मनोरथेनापि रथोपशल्यं प्रापुः प्रहस्तस्य नच प्लवङ्गः ॥ ८८ ॥
ते निर्विषङ्गप्रसशस्तदानीमादित्यवर्णाः समरस्थलीषु ।
यूथानि शाखामृगयूथपानां रथवजाश्चुक्षुदुरस्रपाणाम् ॥ ८९ ॥
ममर्द नीलस्य महीध्रवृष्टिर्महारथानत्रभुजः समस्तान् ।
पेतुः प्रहस्तस्य विभिद्य यूथं शिलीमुखाः प्रष्ठवलीमुखानाम् ॥ ९० ॥
ते मार्गणाः काननगोचराणां वपूंषि निर्भिद्य जवेन जग्मुः ।
मार्गागतानीव जनङ्गमानां द्विजातिसार्था: पुटभेदनानि ॥ ९१ ॥
रथान् रथैर्मत्तगजान् गजेन्द्रैहैयान् हयैर स्रभुजोऽत्रभुग्भिः ।
निष्ठां गतेष्वद्रिषु रोषवेगाज्जघान वैश्वानरदेहजन्मा ॥ ९२ ॥
ता नासयस्ताँश्च शिता न धारास्ता: कोटयो न द्विजपाणिज।नाम् ।
प्रापुः प्लवङ्गं प्रविशन्तमाजावकण्टकं सङ्कटमस्रपाणाम् ॥ ९३ ॥
रणाङ्गणं तत्कपियातुधानैराकीर्णमप्येकपदे तदानीम् ।
विविक्तमासीत् प्रतिसंनिपातं तयोर्द्वयेषां सहसाधिपत्योः ॥ ९४ ॥
तस्तार हस्तद्वितयप्रकर्षात् पृषत्कवर्षैः प्लवगान् प्रहस्तः ।
नीलश्च लाङ्गूलशिखाञ्चलेन खं छादयामास जयोद्धृतेन ॥ ९५ ॥
१. BC द्वीर २. A यी ३. Aथा ४. A द्वनौक ५. A म्बम् ६. A शङ्क ७. Aस्तारायितास्ता
BC तेनासय ८, AD ङ्कटम् ।