रामचरितम् /324
This page has not been fully proofread.
१९२
धूम्राक्षादिमहायोधवधो नाम
मा भैष्ट भोस्तिष्ठत वानरेन्द्राः कोऽयं रिपुर्वी मृतकामिषादः ।
इत्यूचिवानुष्णमयूखजन्मा धामद्वितीयो बलमाललम्बे ॥ ६० ॥
अनेक संमर्दसहानपि द्राकै कपीन्द्रकायान् स निशाचरेन्द्रः ।
टसीत्यभाङ्क्षीत् कमलाकरस्थो मृणालदण्डानिव कुञ्जरेन्द्रः ॥ ६१ ॥
तस्थौ परं भास्करसूनुरेकः तन्वन्परानीकमनोकहौघैः ।
चकर्त कार्तस्वरचित्रपुड्खैस्तानस्रपोऽधेन्दुमुखैः पृषत्कैः ॥ ६२ ॥
रोम्णोषि रक्षोवपुषि क्षतिं ते नगा न चक्रुः कपिराजमुक्ताः ।
न लेभिरे लाघवशालिनोऽङ्गं प्लवङ्गमस्यापि शराः सुरारे: ॥ ६३ ॥
सालेषु तालेषु च निष्ठितेषु तलेन राजा युयुधे कपीनाम् ।
दंष्ट्राभिरुत्सृष्टसमस्तहेती रक्षः मतीयेष तमङ्कभाजम् ॥ ६४ ॥
वितेनतुर्दारुणदेहयुद्धौ तौ द्वावपि द्वापरमव्यवस्थम् ।
नादर्शिं दंष्ट्रासु रिपोः क्षणार्धे यत्सत्यमादित्यसुतस्तदानीम् ॥ ६५ ॥
ततोऽवलोकं द्विगुणं वितन्वन् विलम्वनिष्कासितवक्रबिम्बः ।
विनिर्ययावभ्रपिशाचवक्रादमीशुमालीव वलीमुखेन्द्रः ॥ ६६ ॥
जग्राह संग्राहयुगेन भूयः करावरे: सोऽन्तिकमभ्युपेत्य ।
असावपि व्यर्थिततद्विबन्धो बन्धान्तरेण द्रुतमग्रहीत्तम् ॥ ६७ ॥
अवञ्चयच्चञ्चलताबलेन वलीमुखेन्द्रः करणानि शत्रोः ।
कराङ्घ्रिलाङ्गूलविलोलनानि स्थान्नैव रक्षोऽपि रिपोरपास्थत् ॥ ६८ ॥
समाप्य रक्षोऽथं गुरूपदिष्टान्नियुद्धमार्गानखिलानुदास्त ।
कपिः स्वकृप्तेन पथा जिगाय जयाभ्युपाय: प्रतिभां निजैव ॥ ६९ ॥
वमन्नसृङ्किर्गतनेत्रजिह्वः स विहलो भूमितलं जैंगाम ।
निशाचरः सूर्यसुतेन दोर्भ्यो दृढं निपीड्य प्रतिमुक्तकण्ठः ॥ ७० ॥
वनौकसां प्राप जयप्रघोषः स दाशरथ्योः श्रवणातिथित्वम् ।
ययौ तदा सत्वरमस्रपाणां सांराविणं रावणकर्णमूलम् ॥ ७१ ॥
१. BCD दिखादः २. A विप्राक्, ३. C खिसि ४. A निबद्धनिष्कासित ५. BCD व्युझित
६. D वधा ७. BCD ना ८. BC पि ९. D मा १०. BC लं भूतलमाजगाम,