This page has not been fully proofread.

१८८
 
धूम्राक्षादिमहायोधवधो नाम
 
साध्या मयैते नियतेः प्रभावान्न तु त्वदस्त्यभ्यधिकं ममौजः ।
स्थितानि मय्यप्यधुना तवैव रजांसि पादाम्बुजयोर्जयन्ति ॥ १२ ॥
स्मरात्मनः साधय देवकार्य तवाजिभाजः क इमें पिशाचा: ।
त्यजार्जवं जितमेष्वमीषु जहि प्रकारैः कुटिलैरपीमान् ॥ १३ ॥
 
इत्यूचिवानुत्सुकितप्लवङ्ग विहङ्गमेश: सहसोत्पपात ।
दिव्यस्रगालेपनगन्धपुण्यश्चिरात्तदङ्गंप्रभवो नभस्वान् ॥ १४ ॥
 
रामस्य तेनाभ्युदयाद्भुतेन ववल्गुरुच्चैः कपयः प्रतीतः ।
ततश्चिरात् खेचरचारणांनां कोणाहता दुन्दुभयो निनेदुः ॥ १५ ॥
महोत्सवः संमदगीतवाद्यैः मुमूर्छ शोकानुर्पदं कपीनाम् ।
हर्षावसाने च विषादमूकं बभूव लङ्कनपुरमेकदैव ॥ १६ ॥
 
जाताद्भुतैर्यामिकयातुधानैरनक्षरावेदितसंभ्रमस्य ।
 
विवेश रक्षोऽधिपतेः श्रवांसि स वानराणां प्रमदमघोषः ॥ १७ ॥
पप्रच्छ स भ्रूकुटिसान्धकारमुखावलिर्मूलसदः क एषः ।
विलापकाले महकेलिशंसी रवो महान्वानरवाहिनीनाम् ॥ ८ ॥
चरैचिरेणाधिगतप्रवेशैर्निवेदितार्थ: सुचिरं जुघूर्णे ।
संकृत्य चाकारमुपेतमग्रे जगाद धूम्राक्षमनीकिनीशम् ॥ १९ ॥
हन्ताऽस्मि तं साहसिकं विहङ्गं त्वं भुङ्क्ष्व कोलाहलिनः प्लवङ्गान् ।
हैरोत्थितां मूर्धरुजं ममेमां धूम्राक्ष विश्राम्यतु मेघनादः ॥ २० ॥
स निर्जगाम क्षणदावसाने निजावसानाय हनुमतोऽङ्कम् ।
क्रव्यादवीरैर्विकृतै": परीतो मृत्युः परेतैरिव रुद्रमूलम् ॥ २१ ॥
 
पपात पश्यन्ननिमित्तजातं स पश्चिमं द्वारमनीकिनीशः ।
ददर्श चामर्पविकूणिताक्षो वलीमुखाद्वैतविभूतिम ॥ २२ ॥
असावमार्गन्मृगवाहसूनुं न प्रार्थयामास वनौकसोऽन्यान् ।
विशोभते शाखिनि दीप्यमानस्तृणे घृणाकारिणि को दवाग्निः ॥ २३ ॥
 
१. BC मै । २. BC स्त्रा । ३. BC किममी । ४. D प्रयोगो । ५. BC आसीचि । ६. BC वीराः
७. B वानराणाम् । ८. BC सउ ९ D पनुदः । १० नंलव । ११. D होनो । १२. BCD कचैः
१३ A प्रापच D पुरःप्र । B व्रजन्न