रामचरितम् /319
This page has not been fully proofread.
द्वात्रिंशः सर्गः ।
द्वात्रिंशः सर्गः ॥
दृशः प्रसर्पत्ततिभिः क्षणार्धं रुन्धानमा कल्पमणिप्रभाणाम् ।
दिशश्च लिम्पन्तमिव प्रदीर्घनिर्हारिणा लेपनसौरभेण ॥ १ ॥
मूर्छद्भिरन्योन्यमनेकवर्णैर्घनाविलेऽह्लीव सहस्रभासम् ।
तन्वानमिन्द्रायुधजालमुस्रैरुष्णीषकक्षाङ्गन्दनायकानाम् ॥ २ ॥
कण्ठेन वज्राङ्कितनिष्कलक्ष्यं महेन्द्रसन्देशमिवोद्वहन्तम् ।
तमसि मुक्तालतया हरन्तमुपेन्द्र भत्तयेव हृदि स्फुरन्त्या ॥ ३ ॥
चन्द्रातपेनेव सुधासमुद्रं संवीतमर्चिःशुचिनांऽशुकेन ।
विराजमानं मणिकुण्डलाभ्यां श्रुतिस्मृतिभ्यामिव धर्मकार्यम् ॥ ४ ॥
दिव्याकृतिं दिव्यविलासभाजमुद्भासिदिव्याभरणप्रवेकम् ।
अनुद्धतै : संविहितावधानं दिव्यैश्च शब्दादिभिरिन्द्रियार्थैः ॥ ५ ॥
सह्यानुयोगोपनतं ददर्श रामः समं संमदिनाऽनुजेन ।
तमग्रतः कीर्णसुवर्णगौरच्छदमभामण्डलमण्डजेशम् ॥ ६ ॥ कुलकम् ॥
अनेन सद्यो विशदीकृतौ स्वः क एष नो बन्धुषु नाकवर्ती ।
उपक्रियायाः सदृशं विधेयं किमावयोरित्युभयं ललज्जे ॥ ७
तमानतं संनतिभिर्विशेषादुत्थापयन्विस्मृतपूर्ववृत्तम् ।
अवोचताधोक्षजमल्पमेव रामाभिधानस्थगितं गरुत्मान् ॥ ८ ॥
प्रसीद गच्छामि नमो नमस्ते समस्तलोकप्रभवेऽच्युताय ।
गृहाण मां क्षिर्मंमहं त्वदीयः सह्याय ते सत्वरमागतोऽस्मि ॥ ९ ॥
रक्षः पतेरिन्द्रजिता सुतेन स्वाराधितोऽभूद्वरदो विरिञ्चिः ।
ददौ स तस्मै भगवान् द्विजिह्वान् जगत्प्रमाथोदयलालसाय ॥ १० ॥
तेनैव नाथ प्रथमं निसृष्टः सृष्टिस्थितिप्रक्षयकारणेन ।
देवेन देवासुरदुस्सहानामहित्रजानामहमत्ययार्यं ॥ ११ ॥
२८७
१. B भिः २. A मन ३. BCD कर्णिका ४. Bय ५. A प्लुवैः CD प्लतै ६. A संक्षिप्त ७. A
भुजङ्गान् तातप्रसादोजय । ८ A मित्युपायः ।