This page has not been fully proofread.

एकत्रिंशः सर्गः ।
 
देवद्विजगुरुश्रद्धाभरबन्धुरचेतसाम् ।
 
सदागमप्रमाणानामकालमरणं कुतः ॥ १६६ ॥
 
रिष्टशून्यतयाऽनिष्टं पश्यामो न मनागपि ।
 
उत्थास्यति सह भ्रात्रा रामो नूनमनामयः ॥ १६७ ॥
 
आसप्तरात्राद्भिषजां सद्यः प्राणहरेष्वपि ।
अस्ति मर्ममहारेषु प्लवगेश प्रतिक्रिया ॥ १६८ ॥
 
अहं भिषक् सहायस्त्वमातुरौ रामलक्ष्मणौ ।
दूराण्यपि न दूराणि भेषजानि च मारुतेः ॥ १६९ ॥
भव्यानां स्वयमायान्ति भिषजो भेषजानि च ।
अनयोर्विषवेगेऽस्मिन् वीक्षे तार्क्ष्यमुपागतम् ॥ १७० ॥
सन्ति सुप्तकचिह्नानि नैवास्ति व्यसुलक्षणम् ।
न चाकृतिविशेषाणामीदृशामीदृशं भवेत् ॥ १७१ ॥
 
इयं विभातु रजनी द्रष्टाऽसि विरुजाविमौ ।
धान्वन्तरीया हि वयं मा स्म गाः सिद्धिसंशयम् ॥ १७२ ॥
 
श्रूयते हि शिरश्छिन्नं सप्ततन्तो: पिनाकिना ।
सद्यः संहितमश्विभ्यां तत्र तद्भागतोषिते ॥ १७३ ॥
 
सुरारिभिः शकलितो बृहस्पतिसुतः कचः ।
संजीवितो भगवता भार्गवेण पुनः पुनः ॥ १७४ ॥
 
देवासुरा: समीकेषु मिथः शस्त्राग्निसंस्थिताः ।
सद्यः समीयुरसुभिः प्रभावात्स्वःपुरोधसः ॥ १७५ ॥
इति वदति सुषेणे संपपातान्तरिक्षा-
दमृतपृषतजालैर्दुर्दिनं दिक्षु तन्वन् ।
प्लवगपतिसुगुप्तौ सुप्तकावन्तरा तौ
 
विषधरकुलशत्रुर्विष्णुपत्रं पतत्री ॥ १७६ ॥
 
२८५