रामचरितम् /316
This page has not been fully proofread.
૨૦૪
नागपाशपरिभ्रंशो नाम
हृत्कुशेशयमाक्रान्तं यद्यपीदं शिलीमुखैः ।
अयं यद्यपि निष्क्रान्तः सास्रपिण्डो ढुकुण्डुकः ॥ १५४ ॥
इन्द्रवस्तावयं यद्यप्यच्छिन्नः प्रवहोऽसृजाम् ।
यद्यप्ययं लोहिताक्षे लक्ष्यते लोहितक्षयः ॥ १५५ ॥
खानि यद्यपि सुप्तानि लुप्ता यद्यपि चेतना ।
आशीविषपरीतेषु यद्यप्यङ्गेषु नान्तरम् ॥ १५६ ॥
यद्यपि स्वापनी विद्धा बृहँती यद्यपि क्षता ।
यद्यपीयं विपाठः स्वराणी सरणिः क्षता ॥ १५७ ॥
सर्वमस्न्थां विसन्धानमिदं यद्यपि दुर्घटम् ।
पाँतः पिशितपेशीनामेष यद्यपि चावन ॥ १५८ ॥
स्नायुमर्मसु निर्मग्नाः कर्णिनो यद्यपीषवः ।
आविद्धं धमनीजालमूर्ध्वं यद्यपि जत्रुणः ॥ १५९ ॥
सप्ताग्रमपि सुग्रीव गतं यद्यपि मर्मणाम् ।
हितँ तथापि जानीहि देव दीर्घायुषाविमौ ॥ १६० ॥ कुलकम् ॥
सत्यं छिन्नानि भिन्नानि क्षतानि मथितानि च ।
स्वामिन् सर्वत्र सर्वाणि मर्माणि मनुजेन्द्रयोः ॥ १६१ ॥
सद्यः प्राणहरः क्वापि क्वापि कालादिह क्षयः ।
क्वचिच्च शल्योद्धरणान्मरणं मर्मणि ध्रुवम् ॥ १६२ ॥
क्वचिद्विकलतापत्तिः शस्त्रस्पर्शान्मनागपि ।
केवलं क्वापि मूर्छन्ति महाराज महारुजः ॥ १६३ ॥
सत्यं तन्मर्त्यमात्रेषु शल्यतन्त्रे निदर्शितम् ।
मर्त्यातिशययोः स्वामिन्ननयोस्तत्पुनः कथम् ॥ १६४ ॥
पश्य नासागतिः सैव सैव मुद्रा दृशोरियम् ।
सैव घोरप्रहारेऽपि च्छाया काऽप्यनपायिनी ॥ १६५ ॥
१. B शास्त्रपिण्डोघदुन्दुकः । D हृदुन्दुकः २. A स्थ । ३. B धमनी ४. AC टोच्चैस्तरुणे ५. A
प्रातः C पो । ६. A धिकौ । ७. Bमू । ८. Aक्ष । ९ BC व्ययः D व्यथः ।