This page has not been fully proofread.

૨૦૨
 
नागपाशपरिभ्रंशो नाम
 
जयः पुण्यपराधीनः प्राप्यते कृपणैरपि ।
 
नहि' शूराहतेऽन्येन देहत्यागोद्भवं यशः ॥ १३१ ॥
 
बद्धौ विपक्षभूतनै कर्मणा रामलक्ष्मणौ ।
सुहृद्भूतेन तेनैव मोचनीयाविमौ पुनः ॥ १३२ ॥
 
कर्मणि प्रगुणे पुंसः सर्वमेव प्रदक्षिणम् ।
तस्मिन् विगुणताभाजि भजते को न वामताम् ॥ १३३ ॥
 
सतां सत्कर्मसंवेगः पुराणं प्रणुदत्यघम् ।
वर्षौंघ इव शैलानां दवानलशिखोच्चयम् ॥ १३४ ॥
 
सुखदुःखोपभोगानमुपनामक्षणोद्धुराः ।
प्रतिजाग्रति कर्तारं केवलं कर्मशक्तयः ॥ १३५ ॥
 
सखे संन्यस्य कर्माणि ब्रह्मणः प्रणयी भव ।
नेष्यते यदि संसारचक्रावर्तभ्रमश्रमः ॥ १३६ ॥
 
तावदेव विकल्पोऽयं हृदि यावद्भहिग्रहः ।
सर्ति कूले हि कल्लोला: केवलं निचलं पयः ॥ १३७ ॥
 
अयं किमन्धङ्करणस्त्वया शोकोऽवलम्ब्यते ।
निर्वाहयतु सैव त्वां प्रज्ञायष्टिरभङ्गरा ॥ १३८ ।
 
ते जातु न विगण्यन्ते गणनासु गरीयसाम् ।
ये तरङ्गैस्तृणानीव ह्रियन्ते हर्षशोकयोः ॥ १३९ ॥
 
स्वामारूढं दशादोलामहोरात्रमिदं जगत् ।
क्रीड्यते' षड्विधैः प्रेसः सखे कस्य विरोदिषि ॥ १४० ॥
 
स्रुते संहरति क्षिप्रं पुनः सृजति हन्ति च ।
जगन्ति बहुपर्यायः काल एव कुतूहली ॥ १४१ ॥
 
१. B C तु २. B C D कर्मणा रामलक्ष्मणौ ३. BCD द्विषद्भूतेन येनैवं ४, B C D यमितौ
पुरा । ५. B खेपिशोका । CD खापशापानांपापा ६. BCD तद्विकल्पोत्थंय । ७, A र्गतः ८, C सन्ति D
चलाः ९ B डते । A ढन्ते ।