रामचरितम् /313
This page has not been fully proofread.
एकत्रिंशः सर्गः ।
पृथिव्यादिमहाभूतपरमाणुमयं जगत् ।
स्थितं यदा तदाऽपीह को गतो योऽनुशोच्यते ॥ ११९ ॥
असतः संभवो नास्ति नास्त्यभावः सतः सखे ।
आविर्भावतिरोभावाः संस्थानानाममी परम् ॥ १२० ॥
किं त्वमेक पुरोत्सादाद्विषादमुपगच्छसि ।
भज संचारिताभोमं परमेशं पुरान्तरे ॥ १२१ ॥
दुरितानि दशास्यस्य पच्यन्तेऽद्यापि न ध्रुवम् ।
द्रुतमेवास्य देवस्य पाशाः प्रश्लथतां गताः ॥ १२२ ॥
इमा मुद्दामतमसं जित्वा सत्वबलाच्छुचम् ।
रामस्यानुसराध्वानं विशुद्धेनान्तरात्मना ॥ १२३ ॥
समाधाय क्षणं पश्य प्रत्यगात्मानमात्मनि ।
इयं विभातु सुव्यक्तं प्राग्बुद्धिरजनी तव ॥ १२४ ॥
कृतं पुरुषकारेण केवलं कर्मणे नमः ।
रामो रावणिना बाणैर्यदेवं यमितो युधि ॥ १२५ ॥
नाभिजात्यं न चारित्रं न नयो नच विक्रमः ।
बलवन्ति पुराणानि सखे कर्माणि केवलम् ॥ १२६ ॥
अनयोरप्रतीकारात् किमेवमवसीदसि ।
न लुम्पति ललाटस्थामीश्वरोऽप्यक्षरावलिम् ॥ १२७ ॥
क्वायोध्या क्व च लङ्गेयं क्व रामः क्व च रावणः ।
अचिन्तनीया नियतिर्ययेदं द्वन्द्वमाहितम् ॥ १२८ ॥
हे सुग्रीव दशग्रीवं जहि स्वेनैव मुष्टिना ।
असामान्यमिदानीं ते यशो यातु परापरम् ॥ १२९ ॥
दूरमुत्सहते राजन् महासत्त्वो महापदि ।
अल्पसत्त्वो जनः शोचत्यल्पेऽपि चं परिक्षये ॥ १३० ॥
१. BC हि
२८१