रामचरितम् /309
This page has not been fully proofread.
एकत्रिंशः सर्गः ।
रुदितध्वनिना तेन त्रिजटा संशयं ययौ ।
अतिगम्भीरमविशन्मैथिली मोहसागरम् ॥ ७१ ॥
नाजयन् कपयस्तर्हि तेषामार्तरवैः पुनः ।
स महानुत्सवाघोषः पिदधे पिशिताशिनाम् ॥ ७२ ॥
निपपात कपीन्द्राणामध्रुवर्षं तथाऽभितः ।
ममृजेऽस्रनदीपङ्कन्स्तावुभौ परितो यथा ॥ ७३ ॥
हा सुप्रभू दाशरथी सुप्रभूतगुणालयौ ।
क्षणिकं दर्शयित्वा नः स्वप्नं कुत्र गतौ युवाम् ॥ ७४ ॥
अयं योषिदेवीरेव रघुवीरौ विरोदिति ।
युवयोरायतस्वापदीनो दिनकरात्मजः ॥ ७५ ॥
मृढाविमौ राजसुतावुत लोकान्तरं गतौ ।
बत सम्यङ्ग न जानीमो जाम्बवन् कोन्वयं विधिः ॥ ७६ ॥
अनयोरनयो नास्ति पौरुषं पुरुषाधिकम् ।
हतौ कथं निहीनेन द्विषा दशरथात्मजौ ॥ ७७ ॥
किमेतयोरस्त्यशुभं शुभलक्षणदीप्तयोः ।
यन्मुह्यतः संयमितौ झषेन्द्राविव जॉलिना ॥ ७८ ॥
विचारयति नाचारं नचाकारं नच क्रमम् ।
आक्रम्य संज्ञपयति यथोत्पादमनित्यता ॥ ७९ ॥
विक्रमन्ते न सुभटाः पलायन्ते न भीरवः ।
समं द्वयेऽपि सर्पन्ति सदनं समवर्तिनः ॥ ८० ॥
अग्रे यान्ति गुणोदग्राश्वरमं निर्गुणा अपि ।
यथाहनि तथा रात्रौ वहत्येवैष दाणः ॥ ८१ ॥
ऋक्षराज हितं शाधि स्वामिनं शोकविह्वलम् ।
नीयेतां सत्वरमिमावितः सन्दिग्धजीवितौ ॥ ८२ ॥
२७७
१. BCD मात्रेण । २. BC वशा । ३, B C D दिवाकान्ता । ४, B C ताबुपेन्द्रविन्द्र । ५. A न
तथान्दिय ६. A त्युचैः सु