This page has not been fully proofread.

३७२
 
नागपाशपरिभ्रंशो नाम
 
क्वासौ नलो जलनिधिर्येन बद्धः शिलोच्चयैः ।
स तरत्वधुना क्षुब्धं मेघनादमहार्णवम् ॥ ११ ॥
भग्नस्त्वया मम रथो वालिपुत्र बली भवान् ।
मायें भग्नं पितृव्यस्य निर्वाहय मनोरथम् ॥ १२ ॥
सुषेण शृणुमः सिद्धिं भैषज्ये भिषजस्तव ।
गाढबाणत्रजरुजावुल्लाघय रघूहौ ॥ १३ ॥
अयं स मैन्दद्विविदौ दोर्दर्पः समरेषु वाम् ।
सुप्तं,भवद्भ्यां नरयोर्यन्मया हन्यमानयोः ॥ १४ ॥
अयं ते जाम्बवन्मन्त्रस्तन्त्रेण । नेन राघवः ।
यत्प्रेरितो योधयितुं यातुधानपतिं त्वया ॥ १५ ॥
विशेषेण विहस्योच्चैर्बभाषेऽथ विभीषणम् ।
रामलक्ष्मणयोर्मूले शोकवैलक्ष्यमीलितम् ॥ १६ ॥
सूरौ कृतास्त्रौ सुधियौ सुप्रभूतैपुरोगमौ ।
इमौ तौ रामसौमित्री पितुव्य यमितौ मया ॥ १७ ॥
 
बलं विलुप्तमखिलं मयैकेन वनौकसाम् ।
त्वं शेषितो दर्शयितुं दाशरथ्योरिमां दशाम् ॥ १८ ॥
 
क्व नश्यसि निशीथेऽस्मिन्नमितोऽसि मुखत्विषा' ।
मया युध्यस्व पुत्रेण रामलक्ष्मणशत्रुणा ॥ १९ ॥
यत्सत्यं युध्यमानेऽपि प्रहर्तुं त्वयि नो घृणा ।
यदग्रतो भयं पश्यन् यत्तत्कृत्वाँऽसि निर्गतः ॥ २० ॥
पतितौ नीडशाखाभविमौ ते पुरुषाकृती ।
लयं लङ्काचलाङ्केषु रक्षोऽधर्म भजाधुना ॥ २१ ॥
हताविमौ किं प्लवगैरेहि यामो निकेतनम् ।
तातावास्येऽहमद्य त्वामरातिवधतोषितात् ॥ २२ ॥
 
१. D प्तसू २. A नुन्नीतोसि मुखेन मे । ३. CD त्रकुत्रासि ४. A साखोटा. ५. A वलीकेषु B
चलाङ्केत्र भुजा D ब्वनुजाधम भज