This page has not been fully proofread.

पकात्रंशः सर्गः ।
 
एकत्रिंशः सर्गः ॥
 
त्यागस्य पात्रमियमल्पतरा त्रिलोकी को विक्रमस्य कणिकामपि संसहेत ।
शास्त्राणि कानि सुबहून्यपि हारवर्षक्षोणीपतेरतिपदुप्रतिभागुणस्य ॥
 
शक्रध्वजाकृतिधरौ धरणीशावुभावपि ।
शक्रारिः शरधाराभिः सविशेषमताडयत् ॥ १ ॥
 
तमुत्तानशयं राममभिराममुखाम्बुजम् ।
बाणैर्भूयोऽतुदत्क्रूरकर्मा मर्मणि मर्मणि ॥ २ ॥
 
अमोषितमिवाङ्गेषु पश्यन् जीवितलक्षणम् ।
पुनरुक्तमिषुत्रातैस्तीक्ष्णैर्लक्ष्मणमक्षिणोत् ॥ ३ ॥
अथ प्रकाशतामेत्य वर्षादित्य इव क्षणात् ।
कपीनसृक्पङ्कसद: सोऽतुदद्वचनांशुभिः ॥ ४ ॥
राजन्नुत्तिष्ठ सुग्रीव किमेवमवसीदसि ।
त्वं किलाहृत्य यूथानि जेतुमस्मानिहागतः ॥ ५ ॥
अयं प्रत्युपकारस्ते काकुत्स्थे हतवालिनि ।
यन्मया हन्यमानेऽस्मिन्नक्षतः साक्षितामगाः ॥ ६॥
व्रज संप्रति किष्किन्धां कृतं रामप्रयोजनम् ।
विकत्थस्व निजास्थाने यद्वयं वीक्षितास्त्वया ॥७॥
क्व स रामः क्व सा सीतेत्यनुयोगेषु योषिताम् ।
किं न प्रतिज्ञासदृशं वक्ष्यसि त्वमितो गतः ॥ ८॥
हनूमन् क्कासि मा भैषीः सह्यं पृच्छति रावणिः ।
त्वं नो रिपुर्ययोरर्थे तौ हतावद्य को भवान् ॥ ९ ॥
एकः प्लवगसैन्येऽस्मिन्नञ्जनासुत गयसे ।
अप्रमत्तेन किं मत्तस्त्वयापीमौ न रक्षितौ ॥ १० ॥
 
१. A विव धरां धरणीं तौ गता २. BCD वदरश ।
 
२७१