This page has not been fully proofread.

नागपाशपरिभ्रंश नाम
दृढं पेतुः केचिद्विदधुरैपरे दुष्करतरं
तथाऽन्ये चाश्चर्ये रघुतिलकयोरप्यजनयन् ।
तदानीमिन्द्रारे: कपिसदसि सर्वेऽपि बिभिदुः
 
शरीरं सर्वस्य प्रलयघनधारा इव शराः ॥ ८३ ॥
 
किमवनितलादुद्गच्छन्ति स्फुरन्ति किमम्बरात्
 
किमथ विवरादाविर्भावं भजन्त्यधुना दिशाम् ।
वदत किममी बाणवाताः किमङ्ग भुजङ्गमाः
 
ययुरिति न ते चिन्तापारं मिथ: कपियूथपाः ॥ ८४ ॥
 
सुषेण विषमा रुजः पनस पश्य किं नः स्थितं
 
न वक्ति विनतः शिवं शतबले नल प्राणिषि ।
कपीश्वर किमीक्षसे न बत भाषते लक्ष्मणो
 
गणः स विपिनौकसामिति जगाद गौमाकुलाम् ॥ ८५ ॥
विषमविशिखश्रेणीनिर्यन्महाभुजगावली-
वलयविधुरो रामः पूर्व जगाम महीतलम् ।
प्रथमजदशालोकव्रीडानिषिद्धरिपुक्षयः
 
प्रणिधिवि हितप्राणाबाधः क्षणेन च लक्ष्मणः ॥ ८६ ॥
 
• इत्यभिनन्दकृतौ रामचरिते महाकाव्ये नागास्त्रबन्धनो
नाम त्रिंशः सर्गः समाप्तः ॥
 
१. A धुरम २, BCD गतोदशा ३. ABC वेद्यरिपुक्षय । ४. BC पि । ५, A णं नतु ।