रामचरितम् /298
This page has not been fully proofread.
नागास्त्रबन्धनो नाम
तत्रान्येऽपि प्रत्यनीकप्रवीराः प्रत्येकं ते जघ्निरे वानरेन्द्रैः ।
रक्षश्शून्यो जन्यरङ्गस्तदानीं नाकत्रस्तैस्तस्तरे पारिजातैः ॥ ३७ ॥
एष श्रीमान् वीरबाहुः सुबाहुः सानुप्रस्थचन्दनो हेमकूटः ।
रक्षःकूटं ध्वान्तकूटं च भित्वा देदीप्यन्ते देवयूथप्रवीरौः ॥ ३८ ॥
शक्रारातेः स्यन्दनं मुष्टिनाद्य प्रत्यक्षं नः क्षुण्णवानङ्गदोऽयम् ।
त्यक्त्वा युद्धं रावणिः प्राणशेषो निर्वादार्हस्तर्हि सोऽन्तर्हितोऽभूत् ॥ ३९ ॥
इन्द्रोपेन्द्रावश्विपुत्रौ पुरस्ते पार्श्वस्थोऽयं स्थाणुतुल्यः सुषेणः ।
धर्मः साक्षादृक्षराट् पृष्ठतोऽयं सर्वे देवाः सर्वतोऽयं हनूमान् ॥ ४० ॥
तारः सारौन् हन्त्ययं नैकषेयान् सेनां शत्रोरेति गर्जन्गजोऽयम् ।
एष क्रुद्धः केसरी तानू भिनत्ति स्वस्थः सैन्यं याति संपातिरेषः ॥ ४१ ॥
प्रत्यासन्नः पन्नदोयं नलोऽयं नीलोऽयं च श्वेत इत्येष वीरः ।
एष क्रोशत्यत्रपौघान प्रमाथी यूथस्याग्र रोषणोऽयं रुमण्वान् ॥ ४२ ॥
मथ्नात्याराग्रूथपौघं पृथुर्मे सारम्भोऽयं जृम्भमाणोऽस्ति रम्भः ।
वलगत्युच्चैरेष संग्रामरङ्गे गोलाङ्गूलव्यूहगोप्ता गवाक्षः ॥ ४३ ॥
एकैकस्मादत्युदारैर्वचोभिर्युद्धस्यान्तं प्राप्तवन्तो जयेन ।
सुग्रीवेण स्वीयसेनापतीन्द्रा नामग्राहं दर्शिता राघवाय ॥ ४४ ॥
दृष्टाः सर्वे युध्यमाना मयाऽमी रक्षोरूपैरन्तकैरेव सार्धम् ।
तेषामेव प्रत्युतान्तं विधाय व्यावल्गन्तो विग्रहा: समग्रैः ॥ ४५ ॥
सद्यः क्षुण्णः स्यन्दनः कान्दिशीको दृष्टो नश्यन्नङ्गदान्मेघनादः ।
अंहोराशि : पुण्यराशौ विशुध्यैन दृष्ट: संख्ये स प्रजङ्घाभिधानः ॥ ४६ ॥
दृष्ट: शैलश्रेणिपाणे: सुषेणाद्व्यक्तो विद्युन्मालिनः कालधर्मः ।
निष्ठावत्यो वातपुत्रस्य मुष्टौ दृष्टाः कोट्यस्ताश्च रक्षोभटानाम् ॥ ४७ ॥
श्रान्ताः संप्रत्यासतां तावदेते सार्धं भ्रात्रा दीर्घमव्यापृतस्य ।
क्वाप्युद्देशे रावणिग्रीष्मशेषं बाणासारो लक्ष्मणस्य क्षिणोतु ॥ ४८ ॥
१ BC दीपा । २. B तारं । D सारं । ३. BØ दि । ४. B एनो CD आये । ५Aष्य