रामचरितम् /296
This page has not been fully proofread.
२६४
नागास्त्रबन्धनो नाम
स्रस्तैरङ्गैः स्वैरमाजिस्थलीषु स्थूलस्थूलानस्रविन्दून्वमन्तः ।
तासां रक्षोराजिकादम्बिनीनां बाणासारं वानरेन्द्राः प्रतीयुः ॥ १२ ॥
तत्रैवागात्तुङ्गलाङ्गूलकोटिर्नष्टं मार्गनङ्ग दो मेघनादम् ।
स्तब्धग्रीवः क्रोधताम्रायताक्षः तार्क्ष्यः त्रस्तं पन्नगानामिवेशम् ॥ १३ ॥
दृष्ट्वाऽवस्थां तां दिदीपे कर्णानां खे सन्नद्धान् यातुधानान् ददर्श ।
तैरत्युच्चैर्गर्ज्यते स्म प्रगल्भैर्जग्राह स्वं विक्रमं वालिपुत्रः ॥ १४ ॥
दत्तोत्कम्पं तानि रक्षःशतानि व्योम्नोऽनैषी द्भुतलं तत्क्षणेन ।
शाखैकाग्रादात्मनो वक्तृविम्बं जम्बूनीव प्रौढपाकश्लथानि ॥ १५ ॥
चिक्षेपोच्चै राक्षसानां सहस्रं लाङ्गूलाग्रेणाङ्ग दो वेष्टयित्वा ।
यूथेन्द्राणामिन्द्र जित्तस्य चाग्रे लक्षं शिक्षालाघवेनोन्ममाथ ॥ १६ ॥
आचस्कन्द स्यन्दनेनार्बुदानि ज्यानादेन व्याधुनात् पद्ममेकम् ।
संख्ये संख्यां रावणिर्वानराणां तामत्यल्पां चापहस्तश्चकार ॥ १७ ॥
तं सेनानीरानिलि: सालजालैबणालीनामन्तराले ततान ।
स प्रत्येकं तानि चिच्छेद यावत् प्रापत्तावत्तालपाणि: सुषेणः ॥ १८ ॥
चक्रैर्मोचाकाण्डवत्खण्डशस्तान् कृत्वात्यर्थं राक्षसेन्द्रस्तृणेन्द्रान् ।
नैषा भूमि: क्रूरशस्त्रवजानामित्युज्झित्वा तं ययौ सावहेलः ॥ १९ ॥
विद्युन्मालीत्यत्रभुग्विद्युदाभो निर्भिन्दानः सान्द्रमन्दं तमस्तत् ।
तिष्ठेति द्विर्भाषमाणः सुषेणं निस्सङ्गेन स्यन्दनेनापपात ॥ २० ॥
तेन स्मित्वा सोऽद्रिभिः संप्रतीष्टः कष्टात् धृष्टः माप कष्टं तदानीम् ।
मूर्छानृण्यं सद्य एव प्रपेदे तस्मिन् साधौ सोऽपि रोपव्ययेन ॥ २१ ॥
तं मूर्छान्तं चक्रुरागत्य वैद्यं दिव्यौषध्यः सिद्धिवेगोपहूताः ।
मुष्टिक्ष्माभृच्छाखिनां संनिपातात्तस्याजहे तेन घोरः प्रमाथः ॥ २२ ॥
तत्रारूढे तत्क्षणान्नाकपृष्ठं नाकस्त्रीणामुत्सवः कोपि जज्ञे ।
नित्राणानां रावणानीकिनीनां हाहेत्युच्चै रुच्चचारार्तनादः ॥ २३ ॥
लङ्कगेत्सङ्गात् पिङ्गलश्मश्रुमालः कालो दंष्ट्रादीप्तिपीतान्धकारः ।
निश्चक्राम द्यां दिशश्चाश्नुवानः सेनाङ्गानां डम्बरैर्जम्बुमाली ॥ २४ ॥