This page has not been fully proofread.

नागास्त्रबन्धनो नाम
 
आततान ककुभस्तमश्चयो मूर्धजोत्कर इव व्यसुच्युतः ।
ज्योतिरिङ्गणगणो विदिद्युते जीवसङ्घ इव देहनिर्गतः ॥ ९४ ॥
 
उल्लसत्तिमिरजालमांसलं मत्तफेरवनिनादभीषणम् ।
प्राश्यं रक्तमित्र सान्ध्यमातपं पुस्फुरे रजनिराक्षसीमुखम् ॥ ९५ ॥
दृष्ट॑सन्तमसचौरैपङ्कःयः पङ्किकण्ठपुरयामिक इव ।
प्रान्तजीर्णतरुकोटरौकसः कौशिकाः कलकलं वितेनिरे ॥ ९६ ॥
 
अध्यशेत सुभटव्रजोऽङ्गर्जन्यस्तनिस्सहतनुस्तमश्चितम् ।
चित्ररात्रिचरभूतसङ्कुलं तन्महारणपरेतकाननम् ॥ ९७ ॥
आपणानुकृतिरैक्ष्यत क्वचित् क्वाप्यसूच्यत महानिवाहवः ।
भीषणे तमसि तत्र कुत्रचित् पप्रथे किलिकिलारवः परम् ॥ ९८ ॥
 
कश्चिदागमितचिन्निशार्निलैरन्वियेष मनसा कपिः सखीन् ।
निस्सहः स्वमपि कोपि चक्षमे नैव पातुमसृगत्रभोजनः ॥ ९९ ॥
स्वीचकार कलहोत्तरं शवानूँ क्षेत्रपालपरिषद्बलीयसी ।
व्याचकार वत वक्तुमक्षमो वैकृतेन कटपूतनस्तृषम् ॥ १०० ॥
 
तत्पुरस्सरशिवाननानलज्वाँलभिन्नपदवीतमश्चयम् ।
विप्रकीर्णकुणपाङ्गसङ्कुलं मातरः पितृवनं विचिक्यिरे ॥ १०१ ॥
 
तदोच्चैर्व्याचक्रुः स्वभुजरभसं शोणितभुजो न भेजुर्विश्रामं बहुलरजनीयुद्धरसिकाः ।
निजस्कन्धावारोन्मुखमपि तदाकर्ण्य परितो वितस्थे तत्रैव प्रथममिव शाखामृगबलम् ॥१०२॥
 
निर्मत्सरः कविरपि प्रभुरप्यवामः कान्तोऽप्य रूढ सुभगत्वमदप्रमीलः ॥
अत्युग्रशौर्यरभसोऽप्यकठोरवादी पृथ्वीपतिर्जयति विक्रमशीलजन्मा ॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये वानरराक्षसयुद्धवर्णनो नाम
एकोनत्रिंशः सर्गः ॥
 
१. A प्य D स्य २. Cप्त ३. A गै ४. D वासि ५. B द्धत C धरा ६. AD शिवाम् ७. B लः
का ८. D माकु ९. D omits this sloka