This page has not been fully proofread.

एकोनत्रिंशः सर्गः ।
 
माहरनिबिडैमुष्टिमुद्यतं मुद्गरेण गुरुणापि ताडितः ।
प्रेर्य दूरमासवाटमुत्कटं प्राप शत्रुमुरसि प्लवङ्गमः ॥ ८२ ॥
तं विहस्य दशकण्ठनन्दनः संप्रहारमुरसा तथाऽनुदत् ।
क्रोशताऽरिनिवहेन तर्जितैः क्रोशमेकमगमद्यथाऽङ्गन्दः ॥ ८३ ॥
यावद मधमन्महेन्द्रजित्तावदन्तिकमुपस्थितोऽङ्गन्दः ।
आहवः प्रववृते पुनस्तयोरायुधावलिभिरुत्तरोत्तरः ॥ ८४ ॥
वॉनरस्य बलमीदृशं कुतः कोन्वयं विकटविग्रहः कृती ।
एष वेषवपुषोर्विवर्तन।हृत्रशत्रुरथ मां जिगीषति ॥ ८५ ॥
इत्युवाच मनसैव स क्षणं निश्चिकाय नतमेव तं पुनः ।
प्रागिव प्रतिघवेगमाहरन् माहरत् प्लवगयूनि तत्र सः ।॥ ८६ ॥
लघवाजतनोवञ्चयत्तत्तदायुधमनायुधोऽपि सन् ।
पृष्ठतस्त्वकृत शत्रुमद्रिभिर्विद्रुताखिलरणाङ्गमङ्गदः ॥ ८७ ॥
आमुमोच कवचान्तरं चिरादग्रहीत् प्रहरणान्तरं कृती ।
आरुरोह च रथान्तरं सतामक्षिणोत् कपिममुं क्षणान्तरे ॥ ८८ ॥
वालिपुत्रमवधूय स क्षणं पूर्णकल्पमवहन्मनोरथम् ।
 
तस्य पश्चिमशिलोच्चयाहते: स्वं ररक्ष नतु राक्षसो रथम् ॥ ८९ ॥
उत्पपात हतसप्तिसारथेः नैकषेयपतिनन्दनो स्थात् ।
व्यस्त बाह्य करणाद्विचेतसः क्षेत्रवान्निजकलेवरादिव ॥ ९० ॥
 
पुष्पवृष्टिसमकालमुच्चकैरङ्गदः सुरगणेन तुष्टुवे ।
क्वेत्यतर्क्यत न केनचित्पुन शिकन्धरिरदृश्यतां गतः ॥ ९१ ॥
मेघजालपिहितात्मविग्रहो विग्रहान्तमकरोद्वनौकसाम् ।
शक्तिशूलहलयष्टिवृष्टिभिः कूटयुद्धनिपुणो निशाचरः ॥ ९२ ॥
 
उक्ष्यमाण इव रक्तशीकरैर्भास्करोऽर्थं निममज्ज नीरधौ ।
उल्लसत्सु निवहेषु रक्षसां नश्यति स्म दिवसो भयादिव ॥ ९३ ॥
 
१. BC नबल D नचत २. D निर्जितः । ३. Aन्य Bब्ज ४. BC omit five slokas ५. D
क्षतियान्निज ६. BC ।