This page has not been fully proofread.

२६०
 
वानरराक्षसयुद्धवर्णनो नाम
 
यात यत्र शिशवः स्त्रियोऽथवा केऽत्र यूयमुपहासबिन्दवः ।
रामसंज्ञमपि रावणाह्वयो नाभ्युपैति घृणया सविन्दवः (१) ॥ ७०
० ॥
 
इत्युदीर्य वचनं निशाचराश्चेरुराजिखलमस्थिसङ्कुलम् ।
नेतुमन्तमिव रामभास्वति स्वस्य शेषमपि तामसं कुलम् ॥ ७९ ॥
शान्तसंज्ञमयुतं स्थितं समित्यर्बुदं निववृते वनौकसाम् ।
रक्षसामविशदाजिसंकटात् कोटिरन्तकरदच्युता पुरीम् ॥ ७२ ॥
भ्रष्टबाहुरपविद्धवालधिर्भग्नजानुरवसन्नलोचनः ।
वानरोऽरिनिधनाय तत्वरे सत्वमस्खलितवेगमुद्हन् ।॥ ७३ ॥
 
पीतवान्तनिजरक्तैविप्रुषो विप्रकीर्णविकरालमूर्धजाः ।
स्वध्वजाश्वरथरुद्धवक्षसो राक्षसाः समरसीम्नि शिशियरे ।॥ ७४ ॥
अक्षतं प्लवगसैन्यमाययौ निर्ययावहतमस्रभुग्बलम् ।
 
सङ्गरः प्रववृते तथा तयोः स्तोकशेषमुभयं यथाऽभवत् ॥ ७५ ॥
द्वन्द्वशः कपिनिशाचरत्र जास्तेऽभिजग्मुरविशिष्टहेतयः ।
अङ्गदेन्द्रजयिनोरनन्तरं सङ्गरः प्रववृते भयङ्करः ॥ ७६ ॥
वालिसुनुरचलायुधो बली दुर्जयो दशमुखात्मजः कृती ।
संबभूवतुरुभावमर्षणौ तौ जवोत्तमचमूशिरोमणी ॥ ७७ ॥
 
वेपते स्म दिवि देवसंहतिस्तेन तेन करणेन रावणेः ।
तेन वालितनयस्य चाचलश्रोणिवृष्टिरभसेन पिप्रिये ॥ ७८ ॥
साऽग्रगप्लवगहंसर्मेण्डली मेघनादचकिता दिशोऽग्रहीत् ।
अक्षमिष्ट शरवृष्टिमायतामेकपुङ्गव इवाङ्गदः परम् ॥ ७९ ॥
इन्द्रनप्तुरचलौघमिन्द्रजित्तूलवत्तमधुनाद्धनुर्धरः ।
सूक्ष्मसूत्रपटलीमिवाभिनत्तस्य सोऽपि निबिडीं शरावलीम् ॥ ८० ॥
 
भग्नभुग्नविषमेषुपञ्जरः संचचार कपिरस्खलन् पुरः ।
कङ्कटप्रतिहताचलावलिर्नाचलन्निजपदान्निशाचरः ॥ ८१ ॥
 
१ D यथा २. A सन्न ३. BC विस्त्र ४. Aस ५. D वीर ६. A चिता