This page has not been fully proofread.

एकोनत्रिंशः सर्गः ।
 
राक्षसैर्जुहुविरेऽसवः सुखं प्रार्थितैः कपिभिरर्पितं वपुः ।
ते' द्वयेऽपि यशसः कृते पुनः भेजुरात्तकदनाः कदर्यताम् ॥ ५८ ॥
 
प्रत्यनीकमुखभङ्गहेतुतां तेन नूनमगमन्नसृग्भुजः ।
यत्प्रतीयुरलिकौत् प्रतिस्खलञ्चञ्चलाग्ररसनाः स्वमप्यटक् ॥ ५९ ॥
वीरवक्त्ररुधिरोक्षितद्विपस्कन्धमांसकबलग्रहोत्सुका ।
उन्ननाद मृगधूर्तसुन्दरी दुस्तरास्रपरिवेषरोषिता ॥ ६० ॥
व्यक्तविश्लथवरुथसन्धयो गन्धचञ्चलमुखीभिरन्तिकात् ।
भेजिरे युधि सृगालपालिंभिर्लोलवीरवपुषो रथवजाः ॥ ६१ ॥
 
ध्वस्तधुर्ययुगयोत्तरश्मयः सस्तस्तकुथकेतुकूबराः ।
 
ते ययुर्जयमनोरथा इव प्रक्षयं समिति रक्षसां रथाः ॥ ६२ ॥
सादिनोऽस्थ्यपि लिलेह जम्बुकी नात्ति पत्तिपिशितोत्करं पुरः ।
दुर्लभस्य हि समस्तमिष्यते वस्तु सर्वमितरस्य दुर्भगम् ॥ ६३ ॥
 
निष्फलप्रकटसङ्गरक्रियाः कूटयुद्धमसृजन्नसृग्भुजः ।
नारभन्त घृणया वनौकसो विक्रमैकशरणा रणान्तरम् ॥ ६४ ॥
सालसानुकरकोत्करैररीनृक्षपङ्किरभिवर्षति स्म यो ।
साऽलसाऽनु पदमस्तृणाद्घृणाकारिभिर्मुखविलासबिन्दुभिः ॥ ६५ ॥
सा चचार नखराङ्कुशावलीभीषणा द्विषदनीकनाकुर्षु ।
गुल्मरुद्धघनमूलसन्धिषु प्राणकीटकुलमृक्षसंहतिः ॥ ६६ ॥
 
अन्तकोपगमनोत्सवोचितप्रक्रियाविधिविशारदा इव ।
तेनुरन्त्रततिभिः पतत्रिणस्तोरणानि रणसीमशाखिषु ॥ ६७ ॥
रक्षसां वपुषि कीकसान्तरे तावैः कपिशतैः कृतारवैः ।
पावकोऽजनि घनार्य सस्पृहो दारुणे रणविहारदारुणे ॥ ६८ ॥
 
क्व प्रयात रजनीचरेश्वरं तोषयाम हरयो वधेन वः ।
देवताः स्मरत संभृता वयं वाससा विरहितासिधेनवः ॥ ६९ ॥
 
१. BC न २. AD तत्प्रतीषुरल । ३. A योक्तृ । D युग्य । ४. A नभ्यर्षदथकालिकोपमा । ५. A
मृक्षसंहतिः शीकरानकिरदुत्कफानना । ६. BCD नीषु च । ७. BCD सोत्तरे नारवः कष । ८. D घृणा । ९. Dघन।