This page has not been fully proofread.

२५८
 
वानरराक्षसयुद्धवर्णनो नाम
 
अभ्यगादगणितव्यथस्तथा कोऽप्यरिं कपियुवा जवोत्तरः ।
संविवेद न यथा विनिर्गतं कुन्तमन्तरनुलोमवर्त्मना ॥ ४६ ॥
कोऽपि चाश्वखरपुच्छसंस्तरे हस्तिहस्तमुपधाय सुप्तवान् ।
बोध्यते स्म रुधिरव्ययोल्बणस्वत्रणोदरसमीरनिस्वनैः ॥ ४७ ॥
नर्जुना चलनवर्त्मना पयन्नर्जुनाहतशिरौ निशाचरः ।
वानरो विधुरितः क्षितिं ययौ वानरोषविषभूमि रुफलः ॥ ४८ ॥
 
द्रागसृर्क् स्रवति हस्तवानहन्वानरः शिरसि राक्षसं तथा ।
निर्जघान घनमुष्टिबन्धनस्तं यथा न पुनराहवोन्मुखम् ॥ ४९ ॥
 
उच्चखान विहसन्वलीमुखः पुङ्ख शेषमुरस: शिलीमुखम् ।
संविवेद न महीध्रसंहतिं लोमकूपनिभृतां निशाचरः ॥ ५० ॥
वानरैः प्रचुरशस्त्रकोविदा कोविदारतरुभिर्न्यवर्त्यत ।
रक्षसां क्षयरसोद्धुरा सभा रासभारवानिवेदितागमा ॥ ५१ ॥
तत्र तत्र घनतां गतैरसृकर्दमैर्जगृहिरे यदङ्घ्रयः ।
तेर्न वेद्मि शरशैलदुर्दिनं न व्यतीयुरुभयेऽपि सैनिकाः ॥ ५२ ॥
स्वासिंभिः कषिभिरात्मसात्कृतैः कृन्त्यमानशिर सामसृग्भुजाम् ।
दूरमुद्ययुरसृङ्मुखालयो दैवमत्तुमिव शत्रुतां गतम् ॥ ५३ ॥
उत्तमाङ्गपदभागिति ध्रुवं मूर्ध्नि मत्सरमुवाह विग्रहः ।
यैन्ननर्त ततबाहुराहवे तन्निपातसमकालमेव सः ॥ ५४ ॥
आददे भयदतां न रक्षसञ्चापलं नच कपेरचिन्तयत् ।
तत्पराक्रमगुणैकरञ्जितो नेतुमत्वरत खेचरीगणः ॥ ५५ ॥
वानरोऽप्सरसमीप्सति स्म न स्वामिनो विरहिणः स्मरन्मुहुः ।
क्षुद्रमेतदिति नाकनिस्पृहः स्वीचकार न विमानमत्रभुक् ॥ ५६ ॥
पक्षपातमपहाय राघवे रावणे च परिमुच्य मत्सरम् ।
प्राश्निकत्वमगमन् सुरास्तयोस्तुल्यभङ्गजययोरनीकयोः ॥ ५७ ॥
 
१. BC वीज्य । २. A ववल । C वलन । ३. B वपुः ४. BDक्ष । ५. A भृत् ६. A प्राक् शिरः ७.
A मुष्टिनापिनड्डा ८. BC तन्न D तत्र ९. A मि १० BC द्रुतम् । ११ BC तन्निपातसमकालमुहुजो नृत्यति
स्म यदसौ रणाकणे ।