This page has not been fully proofread.

एकोनत्रिंशः सर्गः ।
 
आससाद करटी कटीतलं मौलिमयत गृध्रमण्डली ।
पादमादित शिवा शयं शुनी जन्यमूर्ध्नि सुभटस्य पेतुषः ॥ ३४ ॥
 
चर्मत्रर्मशकलाकुलोर्मयः केशकेसरकलापशैवलाः ।
ससुरसरितो रथाचल श्रेणिबन्धपरिणद्धरोधसः ॥ ३५ ॥
 
तायते स्म तरुणेऽपि दारुणं ध्वान्तमह्नि रजसा हृतातपे ।
शस्त्रपातरसितेन जज्ञिरे यातुधानविपिनौकसां क्रियाः ॥ ३६ ॥
गृधकाककुलकेलंयः शिवासारमेयपरिपत्पुरस्सरौंः ।
रक्षसः समिति सीदतोऽभवन् प्राञ्च एव परिपार्श्ववर्तिनः ॥ ३७ ॥
 
मूर्छिताः शतमचेतनाः शतं शातशस्त्रशकलीकृताः शतम् ।
अग्रजन्यरसिकाः पैरीयिरे पश्चिमाजिरभसैः परश्शतैः ॥ ३८ ॥
 
गोपुरेषु परिखासु तोयधेस्तीरभूमिषु सुवेलसानुषु ।
रामरावण बलविंचिक्यिरे बन्धवः प्रहतिवेगनिर्गताः ॥ ३९ ॥
 
सा पुरस्तुरगनागपत्तिषु प्रद्रुतेषु तुषवत्तरुक्षतैः ।
रक्षसां प्रकटसारमण्डलॉ कडितेव रुरुचे वरूथिनी ॥ ४० ॥
 
अस्फुरन्नुरसि काननौकसामिष्वसिस्वधितिमार्गसंपदः ।
रक्षसां रुरुचिरे निषेतुषामप्यरातिमभिसरिसंपदः ॥ ४१ ॥
न्यस्य वक्षसि गरीयसो गिरीन्व्यक्रमन्त दशकण्ठसैनिकाः ।
कुर्वते हि हृदि शक्तिशालिनः स्वामिकृत्यभरगौरवं परम् ॥ ४२ ॥
 
जग्मुर स्थितमुदायुधा मिथस्तेऽस्रपप्लवगवीरबाहवः ।
नाकिभिस्तदवलोक्य विस्मितैः सस्मरे न बलवासवाहवः ॥ ४३ ॥
 
लम्बमानमसिना हसन्निव स्वान्त्रनालमलुनान्निशाचरः ।
पाणिरुद्धपृथुपार्श्वशेफँसः पुष्टुवेऽभिरिपु कोपनः कपिः ॥ ४४ ॥
कोष्णशोणितनिपातसूचितस्वोत्तमाङ्गहतयः प्लवङ्गमाः ।
अभ्यर्द्विगुणरोषरंहसः सिंहवन्मदकलोपमानरीन् ॥ ४५ ॥
 
२५७
 
१. BC टम् । २. BC कटाः । ३. D परासवः । ४. BCD प्रती । ५ BCD तण्डु । ६. A कुण्ठि ।
७. C चरुधे । ८. BD नुसाध्व । BC जिग्यु । १०. A गुल्यव । D गुल्य पुप्पु । ११. D कलान्नि-
शाचरान् । B लानिभानरीन् ।