This page has not been fully proofread.

एकोनत्रिंशः सर्गः ।
 
केऽपि चुक्रुशुरधिक्रुधो यथा केपि च प्रजहसुर्जयोद्धुराः ।
केऽपि दीर्घमभितो ननर्दिरे' (?) शैम्बरा: शरदुपागमे यथा ॥ १० ॥
* केऽपि राजकुलमेव चक्रमुः केऽपि कोशभवनं व्यलोकयन् ।
केऽपि जग्मुरवरोधसद्मनामग्रमग्रमभिकामरंहसः ॥ ११ ॥
केऽपि नृत्यभवनानि भेजिरे केपि चित्रवलभीर्व्यडम्बयन् ।
केऽपि नेदरुपरुद्धनिष्कुटाः केऽपि सङ्कटमसङ्कटं व्यधुः ॥ १२ ॥
 
केऽपि सालवलयं व्यलङ्घयन् केऽपि गोपुरमपावृतं व्यधुः ।
केऽपि जग्मुरुपकण्ठमोकसां केऽपि निष्कुटमहीमपूरयन् ॥ १३ ॥
तद्विलोक्य हरिसैन्यमन्तिकादन्तकालशिखिलोलमापतत् ।
अत्वरन्त निजपुद्गलाहुतिं प्रत्यजन्यजलदत्विषोऽत्रपाः ॥ १४ ॥
निर्ययुर्निजनिकेतनोदरात्ते निजप्रभुनिदेशगौरवात् ।
वर्ष्माणि स्खलितवासवायुधे सस्मितभ्रमितकङ्कटोत्कटाः ॥ १५ ॥
 
सावहेलकलितासि पट्टसप्रासपाशहलशूलशक्तयः ।
शातशुभ्रदशनावलीरुचिच्छन्नगाढनिजदेहकालिकाः ॥ १६ ॥
ईयुरुल्लसितरौद्ररंहसः सिंहनादमुखरा नभःस्पृशः ।
उद्धता: प्रलयवातलालनाल्लावणस्य जलधेरिवोर्मयः ॥ १७ ॥
सक्तरक्तजलवाहटृष्टयः प्राज्यरक्तमदिरामदोत्कटाः ।
ऊढरक्तकुसुमोत्करस्रजो रक्तवीरँकदलीकदम्बकाः ॥ १८ ॥
निर्गतारुणविलोलदृष्टयः सृष्टभङ्गुरभयङ्करभ्रुवः ।
ग्रन्थिबन्धयमिताकुलायतश्मश्रवः श्रवणशङ्कभीषणाः ॥ १९ ॥
मूर्ध्नि संनिहितगृध्रपङ्कयः पादयोबटुलजम्बुकीगणाः ।
विप्रतीपखरवातवेल्लितच्छत्रचामरकिरीटकेतवः ॥ २० ॥
अग्रतः प्रववृतेऽग्रगामिनामृक्षराक्षसवनौकसां रणः ।
सालतालशरजालदृष्टिभिर्दृष्टिपल्लवितवैरवीरुधाम् ॥ २१ ॥
 
३५५
 
१. BCD र्यथो । २. A ववल्गिरे । ३. BO शाक ४. CBD omit two slokas ५ BCD
मुद्रलोद्गतीन् । ६. C सृष्ट D स्पृष्ट ७. C ची ।