This page has not been fully proofread.

२५४
 
वानरराक्षसयुद्धवर्णनो नाम
 
एकोनत्रिंशः सर्गः ॥
 
प्रतिनृपसुरमौलिरत्नराजीरुचिरुचिरप्रसवार्पिताङ्गिपूजः ।
कृतसदृशनुतिर्महाकवीन्द्रैर्जयति चिरं युवराजमेदिनीन्द्रः ॥
 
तं निशम्य सबलस्य राघवो रावणस्य रणरागमङ्गदात् ।
सिद्धमिष्टमभिगम्यतामिति स्वं जगाद बलमाहवोत्सुकम् ॥ १ ॥
तत्क्षणं मणिमृदङ्गमर्दलध्वानभिन्नतुमुलारवोर्मयः ।
रुद्धमुक्तजलपूरवत्पुरीमप्लवन्त परितः प्लवङ्गमाः ॥ २ ॥
कोटिशः कनकशैलसंनिभाः पद्मशो विकचपद्मकान्तयः ।
शङ्कुशः कुलिशजालरोचिषः सर्वशः क्षयदिवाकरोपमाः ॥ ३ ॥
 
चक्रचापशकटाम्बुजादिकव्यूहभेदरचनाविच॑क्षणाः ।
मुक्तकादिसकलायुधावलीकृत्यकारितरुशैलमुष्टयः ॥ ४॥
संप्रतीष्टसुरपुष्पवृष्टयः संप्रहृष्टसुरदृष्टसौष्ठैवाः ।
संनिकृष्टसुरशत्रुनिर्जयाः संप्रमृष्टसुरयोषिदश्रवः ॥ ५ ॥
 
पृष्ठतः कृतसहस्ररश्मयः शीतलानुगुणवातवीजिताः ।
सत्त्वसत्त्वरपुरस्सरावलीकथ्यमानरिपुनिर्गमोत्सवाः ॥ ६॥
आलिलिङ्गरथ दोहदा इव व्याकृतस्वरुचिसिद्धसंपदः ।
तां जगत्रयजितः पुरीमरे: तेऽन्तकालशिखिनः कपित्रजाः ॥ ७ ॥
 
तामतीत्य परिखां प्रेतस्थिरे राक्षसेश्वरपुरी हरीश्वराः ।
मैंन्त्रणान्तरनिटृत्तिशङ्कया दूरमुज्झिँतनिवेशभूमयः ॥ ८ ॥
निर्घनान्निपतिता नभस्तलादुत्कटा इव सहस्रकोटयः ।
रेजुराहितमहाचमत्क्रियास्ते पुरोपवनचैत्यशाखिषु ॥ ९ ॥
 
१. BC दरोद्धुराः । २. BC दृष्टिसौष्टवाः । ३. BCD सन्निविष्टसुरदेहसंपदः । ४. CD omit this
sloka ५. BCD खाः परीयि । ६. BC य । ७. BCD वि । ८. BC निर्जि । ९. D जे ।