This page has not been fully proofread.

२५२
 
रणाभियोगो नाम
 
क्रोष्ट्रष्ट्रखरधौरेयाः करालशत्रकेतवः ।
 
संक्रीडन्तः प्रतिष्ठन्तां बीभत्सरचना रथाः ॥ १२० ॥
 
पिशाचमुखचक्रीवच्चक्रवालधुरन्धरः ।
कल्प्यतां विकटाकल्पः स नः कार्णायसो रथः ॥ १२१ ॥
 
निर्गच्छतु गजस्कन्धैः कबन्धानां कदम्बकम् ।
व्रजन्तु वाजिनामग्रे मूर्धानो युद्धलालसाः ॥ १२२ ॥
 
उच्छूना विक्रियावन्तो निष्क्रामन्तु श्वभिः शवाः ।
जनयन्तु द्विषः शङ्कां कङ्कलाः स्खलितोत्थितैः ॥ १२३ ॥
 
द्वारि द्वारि तटिज्जिह्वाः सन्तु सन्तमसच्छिदः ।
ज्वालास्याः सालपृष्ठेषु तिष्ठन्तु विवृताननाः ॥ १२४ ॥
 
विमुक्तकेश्यः कोटव्यो विकटश्रोणिमण्डलाः ।
राक्षस्योऽसृङ्मधुक्षीवाः क्रीडन्तु पुरतस्तयोः ॥ १२५ ॥
 
दृश्यादृश्यानि भूतानि वितन्वन्तु विडम्बनाः ।
दर्शयन्त्विन्द्रजालानि मत्पूज्यस्यान्तवासिनः ॥ १२६ ॥
 
वीराः कारुण्यमुज्झन्तु भीषयन्तां भयानकाः ।
बीभत्साः प्रसरन्त्वग्रे निग्रहाय वनौकसाम् ॥ १२७ ॥
एकदैवाभिहन्यन्तां जैत्रवादित्रजातयः ।
विदीर्णैः कर्णविवरैर्विद्रवन्तु वनौकसः ॥ १२८ ॥
केऽपि घ्नन्तु शतघ्नीभिः केऽपि गुम्फर्णैकैः कपीन् ।
लीढमस्तिष्कलेपाभिः केऽपि प्रेतकरोटिभिः ॥ १२९ ॥
प्राप्तः कोऽपि न मोक्तव्यः प्रहर्तव्यः पुनः पुनः ।
मर्यादा सेतुरुद्धानां धैरान्तगमनं कुतः ॥ १३० ॥
 
इत्युक्त्वा रजनिचरेश्वरः स्वयोधान् सौधाग्रं गगनमिवारुरोह तुङ्गम् ।
संमूर्खन्मुखरवसुचित प्रकारं प्राकारव्यवहितमीक्षितुं कपीनाम् ॥ १३१ ॥
 
१. BC शि। २. A लि । ३. C टिन्यो D टान्या ४, A कुल्यास । ५, AB गू।