रामचरितम् /282
This page has not been fully proofread.
२५०
रणाभियोगो नाम
न जानीमो निहीनानि वक्तुमङ्गद रामवत् ।
गच्छ संनाहयानीकमनीकमित एति नः ॥ ९६ ॥
सर्वसेनाङ्ग विकलं सर्वसेनाङ्गशालिनः ।
यत्सत्यं वानरबलं जेतुं जातत्रपा वयम् ॥ ९७ ॥
नूनमालोक्य नः सैन्यसंनाहं सन्नसाहसः ।
आत्तार्तकाकु: काकुत्स्थः सत्यनामा भविष्यति ॥ ९८ ॥
नाद्याप्युज्झति सीताशां हताश: किमसौ मयि ।
मरुपृष्ठ इवोदन्यामासन्नमरणो मृगः ॥ ९९ ॥
मैथिलीत्यसवस्तस्य पूर्वमेव हृता मया ।
परं भविष्यत्ययशो ममाद्य मृतमारणात् ॥ १०० ॥
स चेदिच्छति सन्धानमाच्छिद्यानुजसन्ततेः ।
सीतावरभवास्तिस्रो विश्राणयतु नस्तदा ॥ १०१ ॥
विभीषणं विशस्यादौ सुग्रीवं चाग्रजद्विषम् ।
बलं विभजतु क्षिप्रं रक्षोभ्यः स जिजीविषुः ॥ १०२ ॥
यातु यातुप्रवीराणां प्रणम्य चरणानसौ ।
नरो न रोषप्रकरं सोडुमिन्द्रजितः क्षमः ॥ १०३ ॥
न चेदत्युग्रमहसा कपिसङ्घस्तरङ्गवान् ।
अगस्त्येनेव जलाधः पौलस्त्येनाद्य पीयते ॥ १०४ ॥
प्रजज्वाल ततः कोपात्कपिः कपिशकेसरः ।
उत्करालशिखाराजिराज्यसेकादिवानलः ॥ १०५ ॥
उज्जगाम जगद्दीपप्रदीप्ताननमण्डलः ।
हेमाचलशिरस्तुङ्गादङ्गदः काञ्चनासनात् ॥ १०६ ॥
तमुज्जिहानमालोक्य चकितास्ते निशाचराः ।
छन्नं वानरवेषेण देवेशंमिव मेनिरे । १०७ ॥
१. BC वीरे ।